Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1733
ऋषिः - गोतमो राहूगणः देवता - उषाः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
2

यु꣣ङ्क्ष्वा꣡ हि वा꣢꣯जिनीव꣣त्य꣡श्वा꣢ꣳ अ꣣द्या꣢रु꣣णा꣡ꣳ उ꣢षः । अ꣡था꣢ नो꣣ वि꣢श्वा꣣ सौ꣡भ꣢गा꣣न्या꣡ व꣢ह ॥१७३३॥

स्वर सहित पद पाठ

युङ्क्ष्व । हि । वा꣣जिनीवति । अ꣡श्वा꣢꣯न् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣣रुणा꣢न् । उ꣣षः । अ꣡थ꣢꣯ । नः꣣ । वि꣡श्वा꣢꣯ । सौ꣡भ꣢꣯गानि । सौ । भ꣣गानि । आ꣢ । व꣣ह ॥१७३३॥


स्वर रहित मन्त्र

युङ्क्ष्वा हि वाजिनीवत्यश्वाꣳ अद्यारुणाꣳ उषः । अथा नो विश्वा सौभगान्या वह ॥१७३३॥


स्वर रहित पद पाठ

युङ्क्ष्व । हि । वाजिनीवति । अश्वान् । अद्य । अ । द्य । अरुणान् । उषः । अथ । नः । विश्वा । सौभगानि । सौ । भगानि । आ । वह ॥१७३३॥

सामवेद - मन्त्र संख्या : 1733
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (वाजिनीवति२) हे प्रशस्तक्रियामयि (उषः) उषर्वत् तेजोमयि जगन्मातः ! त्वम् (अद्य) अस्मिन् दिने (अरुणान्) तेजोमयान् (अश्वान्) इन्द्रियरूपान् (युङ्क्ष्व हि) ज्ञाने क्रियायां च योजय खलु। (अथ) ततश्च (नः) अस्मभ्यम् (विश्वा) सर्वाणि (सौभगानि) सौभाग्यानि (आवह) प्रापय ॥३॥३

भावार्थः - सैव माता श्रेष्ठा मन्यते या सन्तानं ज्ञाने कर्मणि च प्रेरयेत्, यतस्तत एव सौभाग्यवृद्धिर्जायते ॥३॥

इस भाष्य को एडिट करें
Top