Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1732
ऋषिः - गोतमो राहूगणः देवता - उषाः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

उ꣡षो꣢ अ꣣द्ये꣡ह गो꣢꣯म꣣त्य꣡श्वा꣢वति विभावरि । रे꣣व꣢द꣣स्मे꣡ व्यु꣢च्छ सूनृतावति ॥१७३२॥

स्वर सहित पद पाठ

उ꣡षः꣢꣯ । अ꣣द्य꣡ । अ꣣ । द्य꣢ । इ꣣ह꣢ । गो꣣मति । अ꣡श्वा꣢꣯वति । वि꣣भावरि । वि । भावरि । रेव꣢त् । अ꣣स्मे꣡इति꣢ । वि । उ꣣च्छ । सूनृतावति । सु । नृतावति ॥१७३२॥


स्वर रहित मन्त्र

उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ सूनृतावति ॥१७३२॥


स्वर रहित पद पाठ

उषः । अद्य । अ । द्य । इह । गोमति । अश्वावति । विभावरि । वि । भावरि । रेवत् । अस्मेइति । वि । उच्छ । सूनृतावति । सु । नृतावति ॥१७३२॥

सामवेद - मन्त्र संख्या : 1732
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (गोमति) गावः धेनवः दिव्यप्रकाशाश्चास्याः सन्तीति तादृशि, (अश्वावति) अश्वास्तुरगाः प्राणबलानि चास्याः सन्तीति तादृशि। [अत्र मन्त्रे ‘सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ’ अ० ६।३।१३१ इत्यश्वशब्दस्य दीर्घः।] (विभावरि) ज्योतिर्मयि, (सूनृतावति) सूनृता प्रिया सत्या मधुरा च वेदवागस्या अस्तीति तादृशि (उषः) जगन्मातः ! त्वम् (अद्य) अस्मिन् दिने (इह) अस्माकं जीवने (अस्मे) अस्मभ्यम् (रेवत्) दिव्यैश्वर्ययुक्तं यथा स्यात् तथा। [अत्र रयिशब्दान्मतुपि ‘रयेर्मतौ बहुलम्’ अ० ६।१।३४ वा० इति वार्तिकेन यकारस्य सम्प्रसारणे ‘छन्दसीरः’ अ० ८।२।१५ इति मतुपो मस्य वत्वम्।] (व्युच्छ) तमोगुणाधिक्यं विवासय ॥२॥२

भावार्थः - यथा ज्योतिर्मयी उषा रात्रेरन्धकारं निवारयति तथैव जगज्जननी स्तोतॄणां मानसपटलात् तमोगुणसाम्राज्यं दूरीकृत्य तान् सत्त्वगुणप्रधानान् करोति ॥२॥

इस भाष्य को एडिट करें
Top