Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1741
ऋषिः - सत्यश्रवा आत्रेयः देवता - उषाः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
4

या꣡ सु꣢नी꣣थे꣡ शौ꣢चद्र꣣थे꣡ व्यौच्छो꣢꣯ दुहितर्दिवः । सा꣡ व्यु꣢च्छ꣣ स꣡ही꣢यसि स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥१७४१॥

स्वर सहित पद पाठ

या꣢ । सु꣣नीथे꣢ । सु꣣ । नीथे꣢ । शौ꣣चद्रथे꣢ । शौ꣣चत् । रथे꣢ । व्यौ꣡च्छः꣢꣯ । वि꣣ । औ꣡च्छः꣢꣯ । दु꣣हितः । दिवः । सा꣢ । वि । उच्छ । स꣡ही꣢꣯यसि । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सू꣣नृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥१७४१॥


स्वर रहित मन्त्र

या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४१॥


स्वर रहित पद पाठ

या । सुनीथे । सु । नीथे । शौचद्रथे । शौचत् । रथे । व्यौच्छः । वि । औच्छः । दुहितः । दिवः । सा । वि । उच्छ । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥१७४१॥

सामवेद - मन्त्र संख्या : 1741
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (सुजाते) सुप्रसिद्धे (अश्वसूनृते) अश्वा व्याप्ता सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (दिवः दुहितः) दिव्यप्रकाशदोग्ध्रि उषः जगन्मातः ! (या) प्रसिद्धा, त्वम् (शौचद्रथे) शुचत् पवित्रो रथः आत्मरूपो रथो यस्य स शुचद्रथः, अतिशयेन शुचद्रथः शौचद्रथः तस्मिन्। [छन्दसि अपत्यप्रत्यया अतिशयार्थेऽपि भवन्ति।] (सुनीथे) सुनेतरि मनुष्ये (व्यौच्छः) प्रकाशं करोषि, सा तादृशी त्वम् (सहीयसि) अतिसयेन सोढृ सहीयः तस्मिन् (सत्यश्रवसि) सत्ययशसि (वाय्ये) वातुं योग्ये तन्तुवत् सन्ताननीये मम जीवनेऽपि (व्युच्छ) विवेकख्यातेः प्रकाशं कुरु ॥२॥२

भावार्थः - ये पवित्राचरणा नेतारो जना भवन्ति तेषु पवित्रतां नेतृत्वबलं च जगन्मातैव निदधाति, तथैव सोऽस्माकमपि जीवनं पवित्रं विधाय विवेकख्यातिप्रकाशं जनयित्वाऽस्मान्निःश्रेयसाधिकारिणः करोतु ॥२॥

इस भाष्य को एडिट करें
Top