Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1751
ऋषिः - कुत्स आङ्गिरसः
देवता - उषाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
स꣣मानो꣢꣫ अध्वा꣣ स्व꣡स्रो꣢रन꣣न्त꣢꣫स्तम꣣न्या꣡न्या꣢ चरतो दे꣣व꣡शि꣢ष्टे । न꣡ मे꣢थेते꣣ न꣡ त꣢स्थतुः सु꣣मे꣢के꣣ न꣢क्तो꣣षा꣢सा꣣ स꣡म꣢नसा꣣ वि꣡रू꣢पे ॥१७५१॥
स्वर सहित पद पाठस꣣मानः꣢ । स꣣म् । आनः꣢ । अ꣡ध्वा꣢꣯ । स्व꣡स्रोः꣢꣯ । अ꣣नन्तः꣣ । अ꣣न् । अन्तः꣢ । तम् । अ꣣न्या꣡न्या꣢ । अ꣣न्या꣢ । अ꣣न्या꣢ । चरतः । देव꣡शि꣢ष्टे । दे꣣व꣢ । शि꣣ष्टेइ꣡ति꣢ । न । मे꣣थेतेइ꣡ति꣢ । न । त꣣स्थतुः । सुमे꣡के꣢ । सु꣣ । मे꣣के꣢꣯इ꣡ति꣢ । न꣡क्ता꣢꣯ । उ꣣षा꣡सा꣢ । स꣡म꣢꣯नसा । स । म꣣नसा । वि꣡रू꣢꣯पे । वि । रू꣣पेइ꣡ति꣢ ॥१७५१॥
स्वर रहित मन्त्र
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥१७५१॥
स्वर रहित पद पाठ
समानः । सम् । आनः । अध्वा । स्वस्रोः । अनन्तः । अन् । अन्तः । तम् । अन्यान्या । अन्या । अन्या । चरतः । देवशिष्टे । देव । शिष्टेइति । न । मेथेतेइति । न । तस्थतुः । सुमेके । सु । मेकेइति । नक्ता । उषासा । समनसा । स । मनसा । विरूपे । वि । रूपेइति ॥१७५१॥
सामवेद - मन्त्र संख्या : 1751
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
(स्वस्रोः) भगिन्योः अनयोः नक्तोषसोः (समानः) एक एव (अनन्तः) असीमः (अध्वा) मार्गः वर्तते। (तम्) आकाशरूपम् अध्वानम् (देवशिष्टे) जगदीश्वरेण अनुशिष्टे शिक्षिते (अन्यान्या) परस्परं सम्बद्धे (चरतः) विचरतः। इमे (सुमेके२) सुष्ठु नियमेषु प्रक्षिप्ते। [मेकः, डुमिञ् प्रक्षेपणे धातोर्बाहुलकादौणादिकः कन् प्रत्ययः। शोभनो मेकः नियमेषु प्रक्षेपणं ययोस्ते।] (विरूपे) कृष्णगौररूपविभिन्नवर्णे, (समनसा) समानमनस्के इव (नक्तोषसा) रात्र्युषसौ (न मेथेते) न परस्परं हिंस्तः। [मेथृ मेधाहिंसनयोः भ्वादिः] (न तस्थतुः) न कार्याद् विरमतः, प्रत्युत आसृष्टेः विश्रामप्रदानप्रकाशप्रदानरूपस्वस्व- कार्यसंलग्ने स्तः ॥३॥३ अत्र नक्तोषसोः स्वसृत्वारोपाद् रूपकालङ्कारः। ‘समनसा’ इति लुप्तोपमम् ॥३॥
भावार्थः - नक्तोषर्वदपरापराविद्ये अपि मनुष्यैः सामञ्जस्येन गृह्येतां चेत्तर्हि निश्चयेनाभ्युदयनिःश्रेयससिद्धिर्भवितुं शक्नोति ॥३॥
इस भाष्य को एडिट करें