Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1771
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢हमि꣡न्द्रं꣢ शविष्ठ꣣ स꣡त्प꣢तिम् ॥१७७१॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋति । स꣣हम् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥१७७१॥


स्वर रहित मन्त्र

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥१७७१॥


स्वर रहित पद पाठ

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋति । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥१७७१॥

सामवेद - मन्त्र संख्या : 1771
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (शविष्ठ) बलवत्तम परमेश जीवात्मन् वा ! (तुविकूर्मिम्) बहूनां कर्मणां कर्तारम्, (ऋतीषहम्) ऋतीः आक्रान्त्रीः शत्रुसेनाः (सहते) पराभवति यस्तम्, (सत्पतिम्) सतां पालकम् (इन्द्रम् त्वा) सत्याहिंसाद्यैश्वर्यवन्तं विघ्नविदारणसमर्थं परमेशं जीवात्मानं च त्वाम् (ऊतये) रक्षायै (सुम्नाय) सुखाय च, वयम् (आ वर्तयामसि) अस्मदभिमुखं प्रवर्तयामः। कथमिव ? (यथा) येन प्रकारेण (रथम्) शकटं कश्चित् प्रवर्तयति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - मनुष्यो यदि परमेश्वरमुपासीत तस्यात्मा च यदि जागरूकः सक्रियश्च जायेत तदा स महान्तमुत्कर्षं निःश्रेयसं चापि प्राप्तुं शक्नुयात् ॥१॥

इस भाष्य को एडिट करें
Top