Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1772
ऋषिः - प्रियमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
तु꣡वि꣢शुष्म꣣ तु꣡वि꣢क्रतो꣣ श꣡ची꣢वो꣣ वि꣡श्व꣢या मते । आ꣡ प꣢प्राथ महित्व꣣ना꣢ ॥१७७२॥
स्वर सहित पद पाठतु꣡वि꣢꣯शुष्म । तु꣡वि꣢꣯ । शु꣣ष्म । तु꣡वि꣢꣯क्रतो । तु꣡वि꣢꣯ । क्र꣣तो । श꣡ची꣢꣯वः । वि꣡श्व꣢꣯या । म꣣ते । आ꣢ । प꣣प्राथ । महित्वना꣢ ॥१७७२॥
स्वर रहित मन्त्र
तुविशुष्म तुविक्रतो शचीवो विश्वया मते । आ पप्राथ महित्वना ॥१७७२॥
स्वर रहित पद पाठ
तुविशुष्म । तुवि । शुष्म । तुविक्रतो । तुवि । क्रतो । शचीवः । विश्वया । मते । आ । पप्राथ । महित्वना ॥१७७२॥
सामवेद - मन्त्र संख्या : 1772
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह
पदार्थः -
हे (तुविशुष्म) बहुबल, (तुविक्रतो) बहुप्रज्ञ, बहुयज्ञ (शचीवः) कर्मवन्, (मते) मननशील परमेश जीवात्मन् च, त्वम् (विश्वया) बहुविधेन (महित्वना) महिम्ना (आ पप्राथ) परिपूर्णोऽसि। [शुष्ममिति बलनाम। निघं० २।९। शचीति कर्मनाम। निघं० २।१। विश्वया विश्वेन, अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेर्यादेशः। आ पप्राथ, प्रा पूरणे, अदादिः। अत्राकर्मकः] ॥२॥
भावार्थः - यद्यपि महत्त्वेन परमेशो जीवात्मानमतिशेते तथाप्युभावपि बलवन्तौ, प्राज्ञौ, मन्तारौ, कर्मण्यौ च स्तः। यथा परमेश्वरं विना ब्रह्माण्डस्य व्यवस्था न भवितुं शक्नोति तथा जीवात्मानं विना शरीरव्यवस्था न जायते ॥२॥
इस भाष्य को एडिट करें