Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1781
ऋषिः - प्रस्कण्वः काण्वः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

जु꣢ष्टो꣣ हि꣢ दू꣣तो꣡ असि꣢꣯ हव्य꣣वा꣢ह꣣नो꣡ऽग्ने꣢ र꣣थी꣡र꣢ध्व꣣रा꣡णा꣢म् । स꣣जू꣢र꣣श्वि꣡भ्या꣢मु꣣ष꣡सा꣢ सु꣣वी꣡र्य꣢म꣣स्मे꣡ धे꣢हि꣣ श्र꣡वो꣢ बृ꣣ह꣢त् ॥१७८१॥

स्वर सहित पद पाठ

जु꣡ष्टः꣢꣯ । हि । दू꣣तः꣢ । अ꣡सि꣢꣯ । ह꣣व्यवा꣡ह꣢नः । ह꣣व्य । वा꣡ह꣢꣯नः । अ꣡ग्ने꣢꣯ । र꣣थीः꣢ । अ꣣ध्वरा꣡णा꣢म् । स꣣जूः꣢ । स꣣ । जूः꣢ । अ꣣श्वि꣡भ्या꣢म् । उ꣣ष꣡सा꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣स्मे꣡इति꣢ । धे꣣हि । श्र꣡वः꣢꣯ । बृ꣣ह꣢त् ॥१७८१॥


स्वर रहित मन्त्र

जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥१७८१॥


स्वर रहित पद पाठ

जुष्टः । हि । दूतः । असि । हव्यवाहनः । हव्य । वाहनः । अग्ने । रथीः । अध्वराणाम् । सजूः । स । जूः । अश्विभ्याम् । उषसा । सुवीर्यम् । सु । वीर्यम् । अस्मेइति । धेहि । श्रवः । बृहत् ॥१७८१॥

सामवेद - मन्त्र संख्या : 1781
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अग्ने) मार्ददर्शक योगिराड् ! (जुष्टः) सेवितः त्वम् (हि) निश्चयेन (दूतः) दोषाणामुपतापयिता। [टुदु उपतापे, स्वादिः। ‘दुतनिभ्यां दीर्घश्च’। उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (हव्यवाहनः) प्राप्तव्यानां योगसिद्धीनां प्रापयिता, (अध्वराणाम्) क्रियमाणानामष्टाङ्गयोग- यज्ञानाम् (रथीः) चालकश्च (असि) विद्यसे। त्वम् (अश्विभ्याम्) प्राणापानाभ्याम् (उषसा) ज्योतिष्मत्या प्रज्ञया च (सजूः) सप्रीतिः सन् (अस्मे) अस्मभ्यम् (सुवीर्यम्) सुवीर्ययुक्तम् (बृहत् श्रवः) योगशास्त्रस्य महद् ज्ञानम् तज्जन्यं यशश्च (धेहि) प्रयच्छ ॥२॥२

भावार्थः - अष्टाङ्गयोगमभ्यस्यते जनाय प्रणवजपः परमेश्वरोपासनं योगगुरुनिर्दिष्टमार्गानुसरणं च लक्ष्यप्राप्तौ परमसहायकानि जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top