Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1786
ऋषिः - बिन्दुः पूतदक्षो वा आङ्गिरसः देवता - सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

पि꣡ब꣢न्ति मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ तना꣢꣯ पू꣣त꣢स्य꣣ व꣡रु꣢णः । त्रि꣣षधस्थ꣢स्य꣣ जा꣡व꣢तः ॥१७८६॥

स्वर सहित पद पाठ

पि꣡ब꣢꣯न्ति । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । त꣡ना꣢꣯ । पू꣣त꣡स्य꣢ । व꣡रु꣢꣯णः । त्रि꣣षधस्थ꣡स्य꣢ । त्रि꣣ । सधस्थ꣡स्य꣢ । जा꣡व꣢꣯तः ॥१७८६॥


स्वर रहित मन्त्र

पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । त्रिषधस्थस्य जावतः ॥१७८६॥


स्वर रहित पद पाठ

पिबन्ति । मित्रः । मि । त्रः । अर्यमा । तना । पूतस्य । वरुणः । त्रिषधस्थस्य । त्रि । सधस्थस्य । जावतः ॥१७८६॥

सामवेद - मन्त्र संख्या : 1786
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(तना) तनेन विस्तरेण (पूतस्य) पवित्रस्य, (त्रिषधस्थस्य) त्रयः आत्ममनःप्राणरूपाः सधस्थाः स्थितिस्थानानि यस्य तस्य, (जावतः) जवतः वेगयुक्तस्य रसस्य (मित्रः) मैत्रीकरुणामुदितोपेक्षावृत्तियुक्तो योगी, (अर्यमा) सूर्यवत् तेजोमयो ज्योतिष्मतीप्रज्ञायुक्तो योगी, (वरुणः) वारितव्याधिस्त्यानसंशयाद्यन्तरायसमूहो योगी च (पिबन्ति) आस्वादनं कुर्वन्ति। [तनु विस्तारे इत्यतो निष्पन्नात् तनशब्दात् तृतीयैकवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन आलादेशः। जवतेर्गत्यर्थाच्छतरि ‘जवतः’ इति प्राप्ते ‘जावतः’ इत्यत्र ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इत्यनेन दीर्घः।] ॥२॥

भावार्थः - परिपक्वा योगिन एव समाधौ स्थिताः पवित्रं ब्रह्मानन्दरसमास्वादयन्ति ॥२॥

इस भाष्य को एडिट करें
Top