Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1787
ऋषिः - बिन्दुः पूतदक्षो वा आङ्गिरसः देवता - सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

उ꣣तो꣡ न्व꣢स्य꣣ जो꣢ष꣣मा꣡ इन्द्रः꣢꣯ सु꣣त꣢स्य꣣ गो꣡म꣢तः । प्रा꣣त꣡र्होते꣢꣯व मत्सति ॥१७८७॥

स्वर सहित पद पाठ

उ꣣त꣢ । उ꣣ । नु꣢ । अ꣣स्य । जो꣡ष꣢꣯म् । आ । इ꣡न्द्रः꣢꣯ । सु꣣त꣡स्य꣢ । गो꣡म꣢꣯तः । प्रा꣣तः꣢ । हो꣡ता꣢꣯ । इ꣡व । मत्सति ॥१७८७॥


स्वर रहित मन्त्र

उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः । प्रातर्होतेव मत्सति ॥१७८७॥


स्वर रहित पद पाठ

उत । उ । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गोमतः । प्रातः । होता । इव । मत्सति ॥१७८७॥

सामवेद - मन्त्र संख्या : 1787
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(उत उ नु) अपि च (प्रातः) प्रभातवेलायाम् (सुतस्य) ब्रह्मयज्ञेन अभिषुतस्य (गोमतः) प्रकाशयुक्तस्य (अस्य) ब्रह्मानन्दरूपस्य सोमरसस्य (जोषम्) सेवनम्। [जुषी प्रीतिसेवनयोः, तुदादिः, घञ् प्रत्ययः।] (इन्द्रः) योगी जनः (मत्सति) स्तौति। [मदि स्तुत्यादौ, लेटि सिब्विकरणे रूपम्।] (होता इव) होमकर्ता यथा यज्ञाग्निं स्तौति तथा ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - यथा प्रातर्देवयज्ञेऽग्नौ होमकर्ता पुरुषोऽग्निं स्तौति तथा योगी ब्रह्मयज्ञे परमात्मसङ्गेन प्राप्तमानन्दं स्तौति ॥३॥

इस भाष्य को एडिट करें
Top