Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1788
ऋषिः - जमदग्निर्भार्गवः
देवता - सूर्यः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
3
ब꣢ण्म꣣हा꣡ꣳ अ꣢सि सूर्य꣣ ब꣡डा꣢दित्य म꣣हा꣡ꣳ अ꣢सि । म꣣ह꣡स्ते꣢ स꣣तो꣡ म꣢हि꣣मा꣡ प꣢निष्टम म꣣ह्ना꣡ दे꣢व म꣣हा꣡ꣳ अ꣢सि ॥१७८८॥
स्वर सहित पद पाठब꣢ट् । म꣣हा꣢न् । अ꣣सि । सूर्य । ब꣢ट् । आ꣣दित्य । आ । दित्य । म꣢हान् । अ꣣सि । महः꣢ । ते꣣ । सतः꣢ । म꣣हिमा꣢ । प꣣निष्टम । मह्ना꣢ । दे꣣व । महा꣢न् । अ꣣सि ॥१७८८॥
स्वर रहित मन्त्र
बण्महाꣳ असि सूर्य बडादित्य महाꣳ असि । महस्ते सतो महिमा पनिष्टम मह्ना देव महाꣳ असि ॥१७८८॥
स्वर रहित पद पाठ
बट् । महान् । असि । सूर्य । बट् । आदित्य । आ । दित्य । महान् । असि । महः । ते । सतः । महिमा । पनिष्टम । मह्ना । देव । महान् । असि ॥१७८८॥
सामवेद - मन्त्र संख्या : 1788
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २७६ क्रमाङ्के परमात्मनृपत्याचार्यविषये व्याख्याता। अत्रादित्यदृष्टान्तेन जीवात्मा प्रोद्बोध्यते।
पदार्थः -
(बट्) सत्यम्, हे (सूर्य) भास्कर ! त्वम् (महान् असि) विशालोऽसि, (बट्) सत्यम्, हे (आदित्य) दिवाकर ! त्वम् (महान् असि) महत्त्वोपेतोऽसि। हे (पनिष्टम) सौरमण्डले स्तुत्यतम ! [पण व्यवहारे स्तुतौ च। पन्यते स्तूयते यः स पनिः, अतिशयेन पनिः पनिष्टमः, मध्ये सुडागमश्छान्दसः, तस्य षत्वं च।] (महः सतः ते) तेजस्विनः सतः तव (महिमा) गरिमा, अद्भुतोऽस्ति। हे (देव) प्रकाशक ! त्वम् (मह्ना) महिम्ना (महान् असि) गौरवपूर्णोऽसि—इति सूर्यस्य अन्योक्त्या जीवात्मानमाह ॥१॥२ अत्रान्योक्तिरलङ्कारः ॥१॥
भावार्थः - सूर्यः परिमाणेन महान् तत्परिधेरष्टलक्षक्रोशद्राघिम्नोऽप्यधिकत्वात्, कर्मभिर्महान् समस्तग्रहोपग्रहाणां प्रकाशकत्वाज्जीवनाधारत्वाच्च, गुरुत्वाकर्षणेन महान् सर्वेषां खगोलपिण्डानामाकर्षणेन धारकत्वात्, ज्योतिषा च महान् ज्योतिष्पुञ्जत्वात्। तथैव मनुष्यस्यात्मन्यपि महती शक्तिर्निहितास्ति, तां परिचित्य स महान्ति कर्माणि कुर्यादित्युद्बोधनम् ॥१॥
इस भाष्य को एडिट करें