Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1789
ऋषिः - जमदग्निर्भार्गवः
देवता - सूर्यः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
8
ब꣡ट् सू꣢र्य꣣ श्र꣡व꣢सा म꣣हा꣡ꣳ अ꣢सि स꣣त्रा꣡ दे꣢व म꣣हा꣡ꣳ अ꣢सि । म꣣ह्ना꣢ दे꣣वा꣡ना꣢मसु꣣꣬र्यः꣢꣯ पु꣣रो꣡हि꣢तो वि꣣भु꣢꣫ ज्योति꣣र꣡दा꣢भ्यम् ॥१७८९॥
स्वर सहित पद पाठब꣢ट् । सू꣣र्य । श्र꣡व꣢꣯सा । म꣣हा꣢न् । अ꣣सि । सत्रा꣢ । दे꣣व । महा꣢न् । अ꣣सि । मह्ना꣢ । दे꣣वा꣡ना꣢म् । अ꣣सुर्यः꣢ । अ꣣ । सुर्यः꣢ । पु꣣रो꣡हि꣢तः । पु꣣रः꣢ । हि꣣तः । विभु꣢ । वि꣣ । भु꣢ । ज्यो꣡तिः꣢꣯ । अ꣡दा꣢꣯भ्यम् । अ । दा꣣भ्यम् ॥१७८९॥
स्वर रहित मन्त्र
बट् सूर्य श्रवसा महाꣳ असि सत्रा देव महाꣳ असि । मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥१७८९॥
स्वर रहित पद पाठ
बट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि । मह्ना । देवानाम् । असुर्यः । अ । सुर्यः । पुरोहितः । पुरः । हितः । विभु । वि । भु । ज्योतिः । अदाभ्यम् । अ । दाभ्यम् ॥१७८९॥
सामवेद - मन्त्र संख्या : 1789
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
(बट्) सत्यम्, हे (सूर्य) प्रभाकर ! त्वम् (श्रवसा) यशसा (महान् असि) महिमवान् वर्तसे। (सत्रा) सत्यमेव, हे (देव) ज्योतिर्मय ! त्वम् (महान् असि) महान् विद्यसे। (असुर्यः) असुराः प्राणवन्तः, तेभ्यो हितः त्वम्। [असुशब्दान्मत्वर्थीयो रः। ततोऽसुरप्रातिपदिकाद् हितार्थे यत् प्रत्ययः।] (मह्ना) महिम्ना (देवानाम्) भूमण्डलसोममङ्गलबुधादीनां प्रकाश्यानाम् (पुरोहितः) प्रकाशप्रदानाय सम्मुखं निहितो विद्यसे। त्वम् (विभु) व्यापकम् (अदाभ्यम्) हिंसितुमशक्यम् (ज्योतिः) तेजः असि इति सूर्यस्यान्योक्त्या जीवात्मानमाह ॥२॥२ अत्राप्यन्योक्तिरलङ्कारः ॥२॥
भावार्थः - जीवात्माऽपि सूर्यवद् यशस्वी गुणैर्महान् अग्रणीर्ज्योतिष्मांश्चास्तीति स स्वकीयान् गुणान् परिचित्य महान्ति कार्याणि कुर्वन्नभ्युदयं निःश्रेयसं च विन्दतु ॥२॥ अस्मिन् खण्डेऽध्यात्मयोगा मृत्योर्ध्रुवत्वं परमात्मा ब्रह्मानन्दरस आत्मोद्बोधनम् इत्येतेषां विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें