Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1790
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣तं꣢ या꣣हि꣡ म꣢दानां पते । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९०॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् । या꣣हि꣢ । म꣣दानाम् । पते । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९०॥


स्वर रहित मन्त्र

उप नो हरिभिः सुतं याहि मदानां पते । उप नो हरिभिः सुतम् ॥१७९०॥


स्वर रहित पद पाठ

उप । नः । हरिभिः । सुतम् । याहि । मदानाम् । पते । उप । नः । हरिभिः । सुतम् ॥१७९०॥

सामवेद - मन्त्र संख्या : 1790
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (मदानां पते) आनन्ददायिनां ज्ञानानां कर्मणां च स्वामिन् जीवात्मन् ! त्वम् (नः) अस्माकम् (हरिभिः) ज्ञानेन्द्रियैः (सुतम्) उत्पादितं ज्ञानम् (उप याहि) उप प्राप्नुहि, (नः) अस्माकम् (हरिभिः) कर्मेन्द्रियैः (सुतम्) निष्पादितं कर्म (उप याहि) उपप्राप्नुहि ॥१॥

भावार्थः - मनःसहितैर्ज्ञानेन्द्रियकर्मेन्द्रियरूपैः साधनैर्निष्पादिते ज्ञानकर्मणी संगृह्य मनुष्यस्य जीवात्माऽध्यात्ममार्गे पदं निधायोत्कर्षं प्राप्नुयात् ॥१॥

इस भाष्य को एडिट करें
Top