Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1791
ऋषिः - सुकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
द्वि꣣ता꣡ यो वृ꣢꣯त्र꣣ह꣡न्त꣢मो वि꣣द꣡ इन्द्रः꣢꣯ श꣣त꣡क्र꣢तुः । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९१॥
स्वर सहित पद पाठद्वि꣣ता꣢ । यः । वृ꣣त्रह꣡न्त꣢मः । वृ꣣त्र । ह꣡न्त꣢꣯मः । वि꣣दे꣢ । इ꣡न्द्रः꣢꣯ । श꣣त꣡क्र꣢तुः । श꣣त꣢ । क्र꣣तुः । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९१॥
स्वर रहित मन्त्र
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥१७९१॥
स्वर रहित पद पाठ
द्विता । यः । वृत्रहन्तमः । वृत्र । हन्तमः । विदे । इन्द्रः । शतक्रतुः । शत । क्रतुः । उप । नः । हरिभिः । सुतम् ॥१७९१॥
सामवेद - मन्त्र संख्या : 1791
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनर्जीवात्मविषय एवोच्यते।
पदार्थः -
(यः इन्द्रः) यो जीवात्मा (वृत्रहन्तमः) अतिशयेन कामक्रोधादीनां शत्रूणां व्याधिस्त्यानादीनां योगविघ्नानां वा हन्ता, (शतक्रतुः) बहुयज्ञश्च, इत्येवम् (द्विता) द्विधा (विदे) ज्ञायते, सः (नः) अस्माकम् (हरिभिः) ज्ञानेन्द्रियैः कर्मेन्द्रियैश्च (सुतम्) उत्पादितं ज्ञानं कर्म च (उप) उप प्राप्नोतु ॥२॥
भावार्थः - जीवात्मनः खलु द्विविधं कर्म, शत्रुवधः योगादियज्ञपूर्तिश्च। तत्करणाय स ज्ञानेन्द्रियकर्मेन्द्रियाण्युपयुज्योन्नतिशिखरमारोहतु ॥२॥
इस भाष्य को एडिट करें