Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1792
ऋषिः - सुकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
त्व꣡ꣳ हि वृ꣢꣯त्रहन्नेषां पा꣣ता꣡ सोमा꣢꣯ना꣣म꣡सि꣢ । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९२॥
स्वर सहित पद पाठत्वम् । हि । वृ꣣त्रहन् । वृत्र । हन् । एषाम् । पाता꣢ । सो꣡मा꣢꣯नाम् । अ꣡सि꣢꣯ । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९२॥
स्वर रहित मन्त्र
त्वꣳ हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥१७९२॥
स्वर रहित पद पाठ
त्वम् । हि । वृत्रहन् । वृत्र । हन् । एषाम् । पाता । सोमानाम् । असि । उप । नः । हरिभिः । सुतम् ॥१७९२॥
सामवेद - मन्त्र संख्या : 1792
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनर्जीवात्मानमाह।
पदार्थः -
हे (वृत्रहन्) कामक्रोधादिषड्रिपूणां योगमार्गे समागतानां विघ्नानां वा हन्तः जीवात्मन् ! (त्वं हि) त्वं खलु (एषाम्) एतेषाम् (सोमानाम्) ज्ञानरसानां कर्मरसानां च (पाता) आस्वादयिता (असि) विद्यसे। (नः) अस्माकम् (हरिभिः) मनःसहितैर्ज्ञानेन्द्रियैः कर्मेन्द्रियैश्च (सुतम्) उत्पादितं ज्ञानं कर्म च (उप) उपप्राप्नुहि ॥३॥
भावार्थः - जीवात्मा खलु शुभं ज्ञानं कर्म च सम्पाद्य योगविधिना परमात्मसाक्षात्कारेण निःश्रेयसं प्राप्तुमर्हति ॥३॥
इस भाष्य को एडिट करें