Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1795
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
6
इ꣢न्द्रं꣣ वा꣢णी꣣र꣡नु꣢त्तमन्युमे꣣व꣢ स꣣त्रा꣡ राजा꣢꣯नं दधिरे꣣ स꣡ह꣢ध्यै । ह꣡र्य꣢श्वाय बर्हया꣣ स꣢मा꣣पी꣢न् ॥१७९५॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣡नु꣢꣯त्तमन्युम् । अ꣡नु꣢꣯त्त । म꣣न्युम् । एव꣡ । स꣣त्रा꣢ । रा꣡जा꣢꣯नम् । द꣣धिरे । स꣡ह꣢꣯ध्यै । ह꣡र्य꣢꣯श्वाय । ह꣡रि꣢꣯ । अ꣣श्वाय । बर्हय । स꣢म् । आ꣣पी꣢न् ॥१७९५॥
स्वर रहित मन्त्र
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन् ॥१७९५॥
स्वर रहित पद पाठ
इन्द्रम् । वाणीः । अनुत्तमन्युम् । अनुत्त । मन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै । हर्यश्वाय । हरि । अश्वाय । बर्हय । सम् । आपीन् ॥१७९५॥
सामवेद - मन्त्र संख्या : 1795
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
(अनुत्तमन्युम्) न नुत्तो बाधितो मन्युस्तेजो यस्य तादृशम् (राजानम्) यशसा प्रदीप्तम् (इन्द्रम् एव) परमात्मानमेव आचार्यमेव वा (वाणीः) वाण्यः, स्तोतॄणां शिष्याणां वा वाचः (सहध्यै) विघ्नानां दोषाणां वा अभिभवाय। [षह अभिभवे, तुमर्थे अध्यैन् प्रत्ययः।] (सत्रा) उपासनासत्रे, विद्यासत्रे वा (दधिरे) नेतृरूपेण स्थापयन्ति। हे मनुष्य ! त्वम् (हर्यश्वाय) हरयः परस्पराकर्षणयुक्ता हरयः सूर्यचन्द्रभूमण्डलादयो लोकाः यस्य तस्मै परमात्मने, जितेन्द्रियाय आचार्याय च, तादृशं परमात्मानमाचार्यं च प्राप्तुमित्यर्थः (आपीन्) बन्धून् (संबर्हय) सम्प्रेरय ॥३॥२
भावार्थः - विद्यायज्ञे गुरुमुपासनायज्ञे च परमेश्वरं प्राप्य मनुष्यैः स्वसमीहितानि साध्यानि ॥३॥
इस भाष्य को एडिट करें