Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1797
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

शि꣡क्षे꣢य꣣मि꣡न्म꣢हय꣣ते꣢ दि꣣वे꣡दि꣢वे रा꣣य꣡ आ कु꣢꣯हचि꣣द्वि꣡दे꣢ । न꣢꣯ हि त्वद꣣न्य꣡न्म꣢घवन्न꣣ आ꣢प्यं꣣ व꣢स्यो꣣ अ꣡स्ति꣢ पि꣣ता꣢ च꣣ न꣢ ॥१७९७॥

स्वर सहित पद पाठ

शि꣡क्षे꣢꣯यम् । इत् । म꣣हयते꣢ । दि꣣वे꣡दि꣢वे । दि꣡वे꣢ । दि꣣वे । रायः꣢ । आ । कु꣣हचिद्वि꣡दे꣢ । कु꣣हचित् । वि꣡दे꣢꣯ । न । हि । त्वत् । अ꣣न्य꣢त् । अ꣣न् । य꣢त् । म꣣घवन् । नः । आ꣡प्य꣢꣯म् । व꣡स्यः꣢꣯ । अ꣡स्ति꣢꣯ । पि꣣ता꣢ । च꣣ । न꣢ ॥१७९७॥


स्वर रहित मन्त्र

शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥१७९७॥


स्वर रहित पद पाठ

शिक्षेयम् । इत् । महयते । दिवेदिवे । दिवे । दिवे । रायः । आ । कुहचिद्विदे । कुहचित् । विदे । न । हि । त्वत् । अन्यत् । अन् । यत् । मघवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । च । न ॥१७९७॥

सामवेद - मन्त्र संख्या : 1797
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
यदि अहं धनपतिर्भवेयं तर्हि (कुहचिद्विदे२) यत्र कुत्रापि विद्यमानाय (महयते) परमेश्वरपूजकाय समाजसेवकाय जनाय। [महयतिः अर्चतिकर्मा। निघं० ३।१४।] (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ शिक्षेयम् इत्) दद्याम् एव। [शिक्षतिः ददातिकर्मा। निघं० ३।२०।] हे (मघवन्) धनाधिप परमात्मन् ! (त्वद् अन्यत्) त्वद्भिन्नं किञ्चित् (नः) अस्माकम् (आप्यम्) प्राप्तव्यम् किञ्च (वस्यः) अतिशयेन आच्छादयितृ, शरणप्रदमित्यर्थः (नहि) नैव (अस्ति) विद्यते, (पिता च) पितृवत् पालकश्चापि (न) न विद्यते ॥२॥३

भावार्थः - दानं सदा सुपात्र एव देयं न तु कुपात्रे ॥२॥

इस भाष्य को एडिट करें
Top