Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1806
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

मा꣡ न꣢ इन्द्र पीय꣣त्न꣢वे꣣ मा꣡ शर्ध꣢꣯ते꣣ प꣡रा꣢ दाः । शि꣡क्षा꣢ शचीवः꣣ श꣡ची꣢भिः ॥१८०६॥

स्वर सहित पद पाठ

मा꣢ । नः꣣ । इन्द्र । पीयत्न꣡वे꣢ । मा । श꣡र्ध꣢꣯ते । प꣡रा꣢꣯ । दाः꣣ । शि꣡क्ष꣢꣯ । श꣣चीवः । श꣡ची꣢꣯भिः ॥१८०६॥


स्वर रहित मन्त्र

मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । शिक्षा शचीवः शचीभिः ॥१८०६॥


स्वर रहित पद पाठ

मा । नः । इन्द्र । पीयत्नवे । मा । शर्धते । परा । दाः । शिक्ष । शचीवः । शचीभिः ॥१८०६॥

सामवेद - मन्त्र संख्या : 1806
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्द्र) जगदीश्वर ! त्वम् (नः) अस्मान् (मा) नैव (पीयत्नवे) हिंसकाय कामक्रोधलोभादिकाय। [पीयतिर्हिंसाकर्मा। निरु० ४।२५।] (मा) नापि च (शर्धते) बलवते कस्मैचिन्मानवाय शत्रवे। [शर्ध इति बलनाम। निघं० २।९।] (परा दाः) परित्याक्षीः। हे (शचीवः) शक्तिशालिन्, त्वम् (शचीभिः) स्वकीयाभिः शक्तिभिः (शिक्ष२) अस्मान् शक्तान् कर्तुमिच्छ। [शक्लृ शक्तौ, णिचि सन्नन्तः, लोटि रूपम्] ॥३॥ अत्र शकारस्यानेकश आवृत्तौ वृत्त्यनुप्रासः, ‘शची’ इत्यस्य द्विरुक्तौ लाटानुप्रासः ॥३॥

भावार्थः - ये परमात्मनि श्रद्धावन्तो भवन्ति तान् न हिंसका हिंसितुं, न पराजेतारः पराजेतुं शक्नुवन्ति। परमात्म-प्रेरणया शक्तिमन्तो मेधाविनः कर्मयोगिनश्च सन्तस्ते सर्वा अपि विपदो विनिघ्नन्ति ॥३॥

इस भाष्य को एडिट करें
Top