Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1807
ऋषिः - नीपातिथिः काण्वः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
7
ए꣡न्द्र꣢ याहि꣣ ह꣡रि꣢भि꣣रु꣢प꣣ क꣡ण्व꣢स्य सुष्टु꣣ति꣢म् । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०७॥
स्वर सहित पद पाठआ꣢ । इ꣣न्द्र । याहि । ह꣡रि꣢꣯भिः । उ꣡प꣢꣯ । क꣡ण्व꣢꣯स्य । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०७॥
स्वर रहित मन्त्र
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०७॥
स्वर रहित पद पाठ
आ । इन्द्र । याहि । हरिभिः । उप । कण्वस्य । सुष्टुतिम् । सु । स्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥१८०७॥
सामवेद - मन्त्र संख्या : 1807
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३४८ क्रमाङ्के व्याख्यातपूर्वा। अत्रोपासकेन जगदीश्वर आहूयते।
पदार्थः -
हे (इन्द्र) जगदीश्वर ! त्वम् (हरिभिः) आनन्दरसरूपैः सोमरसैः सह [हरिः सोमः। निरु० ४।१९] (कण्वस्य) मेधाविनः उपासकस्य। [कण्व इति मेधाविनाम। निघं० ३।१५।] (सुष्टुतिम्) शोभनां स्तुतिम् (उप-आ-याहि) उपागच्छ। हे (दिवावसो) दीप्तिधन जगदीश ! (दिवः) द्योतमानायाः देहरूपाया अयोध्यापुर्याः (शासतः) शासकस्य (अमुष्य) मेधाविनः उपासकस्य (दिवम्) द्योतमानां देहपुरीम्, त्वम् (यय२) गच्छ। [या प्रापणे अदादिः, छान्दसः शपः श्लुः, ततो लोडन्तं मध्यमैकवचने छान्दसं रूपम्। ‘लोट् च’ अ० ८।१।५२ इति निघातप्रतिषेधः। देहपुर्या अयोध्येति नाम। यथाह श्रुतिः—अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पुर॑यो॒ध्या (अथ० १०।२।३१) इति] ॥१॥
भावार्थः - यथा परमेश्वरो ब्रह्माण्डस्य शासकस्तथा जीवात्मा देहस्य शासकः। स चक्रवर्ती सम्राड् जगदीश्वरः स्तोतुर्देहपुरं समागम्यातिथ्यं स्वीकरोतु ॥१॥
इस भाष्य को एडिट करें