Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1813
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
7
अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥१८१३॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥१८१३॥
स्वर रहित मन्त्र
अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥१८१३॥
स्वर रहित पद पाठ
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम् । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिषः । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः ॥१८१३॥
सामवेद - मन्त्र संख्या : 1813
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४६५ क्रमाङ्के व्याख्यातपूर्वा। परमेश्वरस्य गुणकर्मस्वभावा वर्ण्यन्ते।
पदार्थः -
अहम् (अग्निम्) जगन्नेतारं परमेश्वरम् (होतारम्) श्रद्धोपहाराणां ग्रहीतारम्। [हु दानादनयोः आदाने चेत्येके।], (वसोः) वसुनः दिव्यस्य भौतिकस्य च धनस्य (दास्वन्तम्) दातारम्, (सहसः) बलस्य उत्साहस्य प्रोद्बोधनस्य च (सूनुम्) प्रेरकम्, (जातवेदसम्) जाते जाते विद्यमानम्, सर्वान्तर्यामिनम्, (विप्रं न) विद्वांसं जनमिव (जातवेदसम्) जातानां पदार्थानां वेत्तारम् च (मन्ये) जानामि, (यः देवः) यः प्रकाशकः परमेश्वरः (ऊर्ध्वया) उन्नतया (कृपा) शक्त्या। [कृपू सामर्थ्ये, भ्वादिः।] (स्वध्वरः) शोभनस्य जगत्प्रपञ्चरूपस्य यज्ञस्य सञ्चालको विद्यते, अपि च यः (आजुह्वानस्य) यज्ञाग्नौ हूयमानस्य (शुक्रशोचिषः) शुक्रदीप्तेः (सर्पिषः) सर्पणस्वभावस्य द्रवीभूतस्य (घृतस्य) आज्यस्य (विभ्राष्टिम्) विशिष्टां दीप्तिम् अपि (अनु) अनुप्रविष्टोऽस्ति ॥१॥२ अत्रोपमालङ्कारः। ‘जातवेदसम्’ इत्यस्यावृत्तौ यमकम् ‘देवो, देवा’ इति च छेकानुप्रासः, सकारादीनामसकृदावृत्तौ च वृत्त्यनुप्रासः ॥१॥
भावार्थः - सूर्यचन्द्रविद्युन्नक्षत्रादिषु घृताहुत्या प्रदीप्तासु वह्निज्वालासु च या प्रभा दृग्गोचरतां याति सा जगदीश्वरप्रदत्तैव ॥१॥
इस भाष्य को एडिट करें