Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1812
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - द्विपदा गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣡सृ꣢ग्रं दे꣣व꣡वी꣢तये वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥१८१२॥
स्वर सहित पद पाठअ꣡सृ꣢꣯ग्रम् । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥१८१२॥
स्वर रहित मन्त्र
असृग्रं देववीतये वाजयन्तो रथा इव ॥१८१२॥
स्वर रहित पद पाठ
असृग्रम् । देववीतये । देव । वीतये । वाजयन्तः । रथाः । इव ॥१८१२॥
सामवेद - मन्त्र संख्या : 1812
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
अहम् एतान् ब्रह्मानन्दरूपान् सोमरसान् (देववीतये) दिव्यगुणानां प्राप्तये (असृग्रम्) स्वान्तरात्मनि सृजामि, प्रवाहयामि। [असृजम् इति प्राप्ते ‘बहलुं छन्दसि’। अ० ७।१।८ इत्यनेन रुडागमः, ततः कुत्वम्।] एते (वाजयन्तः) अन्नानि प्रयच्छन्तः (रथाः इव) शकटाः इव (वाजयन्तः) बलानि प्रयच्छन्तः, सन्तीति शेषः ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥
भावार्थः - यथा रथा अन्नाद्यानयनाय साधनतां यान्ति तथा ब्रह्मानन्दरसा अध्यात्मबलादीनां प्राप्तये साधनीभवन्ति ॥३॥ अस्मिन् खण्डे जगदीश्वरस्य ब्रह्मानन्दरसस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें