Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1811
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - द्विपदा गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ते꣢ सु꣣ता꣡सो꣢ विप꣣श्चि꣡तः꣢ शु꣣क्रा꣢ वा꣣यु꣡म꣢सृक्षत ॥१८११॥
स्वर सहित पद पाठते । सु꣣ता꣡सः꣢ । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । शु꣣क्राः꣢ । वा꣣यु꣢म् । अ꣣सृक्षत ॥१८११॥
स्वर रहित मन्त्र
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥१८११॥
स्वर रहित पद पाठ
ते । सुतासः । विपश्चितः । विपः । चितः । शुक्राः । वायुम् । असृक्षत ॥१८११॥
सामवेद - मन्त्र संख्या : 1811
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(सुतासः) परमात्मना प्रेरिताः, (विपश्चितः) मेधायुक्ताः (शुक्राः) पवित्राः (ते) प्रसिद्धाः सोमाः ब्रह्मानन्दरसाः (वायुम्) प्राणम् (असृक्षत) ऊर्ध्वं प्रेरयन्ति ॥२॥
भावार्थः - प्राप्ता ब्रह्मानन्दाः योगिनः प्राणानूर्ध्वं प्रेरयन्तस्तस्मै निःश्रेयसं प्रयच्छन्ति ॥२॥
इस भाष्य को एडिट करें