Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1832
ऋषिः - अवत्सारः काश्यपः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

पु꣡न꣢रू꣣र्जा꣡ नि व꣢꣯र्तस्व꣣ पु꣡न꣢रग्न इ꣣षा꣡यु꣢षा । पु꣡न꣢र्नः पा꣣ह्य꣡ꣳह꣢सः ॥१८३२॥

स्वर सहित पद पाठ

पु꣡नः꣢꣯ । ऊ꣣र्जा꣢ । नि । व꣣र्तस्व । पु꣡नः꣢꣯ । अ꣣ग्ने । इषा꣢ । आ꣡यु꣢꣯षा । पु꣡नः꣢꣯ । नः꣣ । पाहि । अ꣡ꣳह꣢꣯सः ॥१८३२॥


स्वर रहित मन्त्र

पुनरूर्जा नि वर्तस्व पुनरग्न इषायुषा । पुनर्नः पाह्यꣳहसः ॥१८३२॥


स्वर रहित पद पाठ

पुनः । ऊर्जा । नि । वर्तस्व । पुनः । अग्ने । इषा । आयुषा । पुनः । नः । पाहि । अꣳहसः ॥१८३२॥

सामवेद - मन्त्र संख्या : 1832
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 7; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अग्ने) प्रकाशकानां प्रकाशक जगन्नायक सर्वान्तर्यामिन् परमेश ! त्वम् (पुनः) भूयो भूयः (ऊर्जा) बलेन प्राणशक्त्या च, (पुनः) भूयो भूयश्च (इषा) अभीष्टेन आनन्देन (आयुषा) दीर्घायुष्येण च (नि वर्तस्व) निरन्तरम् अस्मान् प्राप्नुहि (पुनः) भूयोभूयः (नः) अस्मान् (अंहसः) पापात् (पाहि) त्रायस्व ॥२॥२

भावार्थः - मनुष्यो निर्बलत्वात्पुनःपुनर्निरुत्साहदैन्यदुःखाज्ञानपापादि-भिर्लिप्यते। स परमात्मोपासनया पुनः पुनर्बलप्राणसुखसद्विद्याधर्मदीर्घायुष्यादिकं प्राप्तुं शक्नोति ॥२॥

इस भाष्य को एडिट करें
Top