Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1838
ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा
देवता - आपः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
यो꣡ वः꣢ शि꣣व꣡त꣢मो꣣ र꣢स꣣स्त꣡स्य꣢ भाजयते꣣ह꣡ नः꣢ । उ꣣शती꣡रि꣢व मा꣣त꣡रः꣢ ॥१८३८॥
स्वर सहित पद पाठयः । वः꣣ । शिव꣡त꣢मः । र꣡सः꣢꣯ । त꣡स्य꣢꣯ । भा꣣जयत । इह꣡ । नः꣣ । उशतीः꣢ । इ꣣व । मात꣡रः꣢ ॥१८३८॥
स्वर रहित मन्त्र
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥१८३८॥
स्वर रहित पद पाठ
यः । वः । शिवतमः । रसः । तस्य । भाजयत । इह । नः । उशतीः । इव । मातरः ॥१८३८॥
सामवेद - मन्त्र संख्या : 1838
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ ब्रह्मानन्दधाराणां रसं प्रार्थयते।
पदार्थः -
हे आपः ब्रह्मानन्दधाराः ! (यः वः) युष्माकम् (शिवतमः) अतिशयेन शान्तिदायकः (रसः) सारतत्त्वम् अस्ति (तस्य इह) जीवने (नः) अस्मान् (भाजयत) भागिनः कुरुत। कथमिव ? (उशतीः) उशत्यः कामयमानाः स्नेहं कुर्वाणाः। [वश कान्तौ, शतरि स्त्रियां पूर्वसवर्णदीर्घः।] (मातरः इव) जनन्यो यथा स्वकीयं स्तनरसं सन्तानान् पाययन्ति तद्वत् ॥२॥२ अत्रोपमालङ्कारः ॥२॥
भावार्थः - मातुः स्तन्ये यन्माधुर्यं तदेव ब्रह्मणः सकाशात् प्राप्तास्वानन्दधारास्विति विचक्षणा अनुभवन्ति ॥२॥
इस भाष्य को एडिट करें