Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1837
ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा
देवता - आपः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
आ꣢पो꣣ हि꣡ ष्ठा म꣢꣯यो꣣भु꣢व꣣स्ता꣡ न꣢ ऊ꣣र्जे꣡ द꣢धातन । म꣣हे꣡ रणा꣢꣯य꣣ च꣡क्ष꣢से ॥१८३७॥
स्वर सहित पद पाठआ꣡पः꣢꣯ । हि । स्थ । म꣣योभु꣡वः꣢ । म꣣यः । भु꣡वः꣢꣯ । ताः । नः꣣ । ऊर्जे꣢ । द꣣धातन । दधात । न । महे꣢ । र꣡णा꣢꣯य । च꣡क्ष꣢꣯से ॥१८३७॥
स्वर रहित मन्त्र
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥१८३७॥
स्वर रहित पद पाठ
आपः । हि । स्थ । मयोभुवः । मयः । भुवः । ताः । नः । ऊर्जे । दधातन । दधात । न । महे । रणाय । चक्षसे ॥१८३७॥
सामवेद - मन्त्र संख्या : 1837
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र ब्रह्मानन्दधाराविषयमाह।
पदार्थः -
हे (आपः) ब्रह्मानन्दरसधाराः ! यूयम् (हि) निश्चयेन (मयोभुवः) शान्तेः भावयित्र्यः (स्थ) भवथ। (ताः) ताः यूयम् (नः) अस्मान् (ऊर्जे) ब्रह्मबलाय, (महे) महत्त्वाय, (रणाय) देवासुरसंग्रामाय, (चक्षसे) अन्तःप्रकाशाय च (दधातन) धत्त। [दधातेः ‘तप्तनप्तनथनाश्च’ अ० ७।१।४५ इति तस्य तनबादेशः। छन्दसि बाहुलकादत्र ‘श्नाभ्यस्तयोरातः’ अ० ६।४।११२ इति न प्रवर्तते] ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[आपो हि स्थ सुखभुवस्तानोऽन्नाय धत्त, महते च नो रणाय रमणीयाय दर्शनाय (निरु० ९।२५) इति]।
भावार्थः - उपासको यदा परमात्मसकाशादानन्दधाराः प्राप्नोति तदा ब्रह्मबलमात्मोत्कर्षो विजयादयश्च स्वयमेव समागच्छन्ति ॥१॥
इस भाष्य को एडिट करें