Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1836
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
धे꣣नु꣡ष्ट꣢ इन्द्र सू꣣नृ꣢ता꣣ य꣡ज꣢मानाय सुन्व꣣ते꣢ । गा꣡मश्वं꣢꣯ पि꣣प्यु꣡षी꣢ दुहे ॥१८३६॥
स्वर सहित पद पाठधे꣣नुः꣢ । ते꣣ । इन्द्र । सूनृ꣡ता꣢ । सु꣣ । नृ꣡ता꣢꣯ । य꣡ज꣢꣯मानाय । सु꣣न्वते꣢ । गाम् । अ꣡श्व꣢꣯म् । पि꣣प्यु꣡षी꣢ । दु꣣हे ॥१८३६॥
स्वर रहित मन्त्र
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । गामश्वं पिप्युषी दुहे ॥१८३६॥
स्वर रहित पद पाठ
धेनुः । ते । इन्द्र । सूनृता । सु । नृता । यजमानाय । सुन्वते । गाम् । अश्वम् । पिप्युषी । दुहे ॥१८३६॥
सामवेद - मन्त्र संख्या : 1836
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ वेदवाग्रूपधेनुविषयमाह।
पदार्थः -
हे (इन्द्र) जगदीश्वर ! (ते) तव (सूनृता) सत्या मधुरा च (धेनुः) प्रीणयित्री वेदवाक् (सुन्वते) भक्तिरसं प्रवाहयते (यजमानाय) उपासकाय (पिप्युषी) वर्द्धयित्री सती (गाम्) अन्तःप्रकाशम् (अश्वम्) प्राणबलं च (दुहे) दुग्धे। [लोपस्त आत्मनेपदेषु। अ० ७।१।४१ इति तलोपः] ॥३॥
भावार्थः - वेदाध्ययनेन जनानां परमेश्वरोपासनायां प्रवृत्तिर्जायते, तया चान्तःप्रकाशः प्राणबलं पुरुषार्थप्रेरणा च प्राप्यते ॥३॥
इस भाष्य को एडिट करें