Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1835
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

शि꣡क्षे꣢यमस्मै꣣ दि꣡त्से꣢य꣣ꣳ श꣡ची꣢पते मनी꣣षि꣡णे꣢ । य꣢द꣣हं꣡ गोप꣢꣯तिः꣣ स्या꣢म् ॥१८३५॥

स्वर सहित पद पाठ

शि꣡क्षे꣢꣯यम् । अ꣣स्मै । दि꣡त्से꣢꣯यम् । श꣡ची꣢꣯पते । श꣡ची꣢꣯ । प꣣ते । मनीषि꣡णे꣢ । यत् । अ꣣ह꣢म् । गो꣡प꣢꣯तिः । गो । प꣣तिः । स्या꣢म् ॥१८३५॥


स्वर रहित मन्त्र

शिक्षेयमस्मै दित्सेयꣳ शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥१८३५॥


स्वर रहित पद पाठ

शिक्षेयम् । अस्मै । दित्सेयम् । शचीपते । शची । पते । मनीषिणे । यत् । अहम् । गोपतिः । गो । पतिः । स्याम् ॥१८३५॥

सामवेद - मन्त्र संख्या : 1835
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे शचीपते सर्वशक्तिमन् जगदीश ! (यदि अहम्) अहं चेत् (गोपतिः) गवां भुवां धेनूनां वा (पतिः) स्वामी (स्याम्) भवेयम्, तदा ताः भुवो धेनूर्वा (दित्सेयम्) दातुमिच्छेयम्, (अस्मै मनीषिणे) एतस्मै मेधाविने विदुषे (शिक्षेयम्) दद्यां च। [शिक्षतिर्दानकर्मा। निघं० ३।२०] ॥२॥

भावार्थः - धनपतीनामिदं कर्तव्यं यत्ते यस्य धनस्य स्वामिनो भवेयुस्तस्य धनस्य न्यूनान्न्यूनं शतांशं सत्पात्रेभ्योऽवश्यं दद्युः ॥२॥

इस भाष्य को एडिट करें
Top