Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1842
ऋषिः - उलो वातायनः देवता - वायुः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

य꣢द꣣दो꣡ वा꣢त ते गृ꣣हे꣢३꣱ऽमृ꣢तं꣣ नि꣡हि꣢तं꣣ गु꣡हा꣢ । त꣡स्य꣢ नो देहि जी꣣व꣡से꣢ ॥१८४२॥

स्वर सहित पद पाठ

य꣢त् । अ꣣दः꣢ । वा꣣त । ते । गृहे꣢ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । नि꣡हि꣢꣯तम् । नि । हि꣣तम् । गु꣡हा꣢꣯ । त꣡स्य꣢꣯ । नः꣣ । धेहि । जीव꣡से꣢ ॥१८४२॥


स्वर रहित मन्त्र

यददो वात ते गृहे३ऽमृतं निहितं गुहा । तस्य नो देहि जीवसे ॥१८४२॥


स्वर रहित पद पाठ

यत् । अदः । वात । ते । गृहे । अमृतम् । अ । मृतम् । निहितम् । नि । हितम् । गुहा । तस्य । नः । धेहि । जीवसे ॥१८४२॥

सामवेद - मन्त्र संख्या : 1842
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (वात) जीवात्मसहचरित प्राण ! (यत् ते गृहे) यत् तव देहरूपे सदने (गुहा) हृदयगुहायाम्। [अत्र ‘सुपां सुलुक्’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (अदः) एतत् (अमृतम्) अक्षयं परमात्मरूपं ज्योतिः (निहितम्) स्थितम् अस्ति, (जीवसे) जीवनाय (तस्य नः धेहि) तत् अस्मान् प्रापय ॥३॥

भावार्थः - प्राणायामेन प्रकाशावरणक्षये मनसि धारणासु योग्यताप्राप्त्या प्रत्याहारधारणाध्यानसमाधिभिर्हृदयनिहितं परमात्मज्योतिः प्रकाशते ॥३॥

इस भाष्य को एडिट करें
Top