Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1846
ऋषिः - वेनो भार्गवः
देवता - वेनः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
ना꣡के꣢ सुप꣣र्ण꣢꣫मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा । हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣣ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥१८४६॥
स्वर सहित पद पाठना꣡के꣢꣯ । सु꣣पर्ण꣢म् । सु꣣ । पर्ण꣢म् । उ꣡प꣢꣯ । यत् । प꣡त꣢꣯न्तम् । हृ꣣दा꣢ । वे꣡न꣢꣯न्तः । अ꣣भ्य꣡चक्षत । अ꣣भि । अ꣣च꣢꣯क्षत । त्वा꣣ । हि꣡र꣢꣯ण्यपक्षम् । हि꣡र꣢꣯ण्य । प꣣क्षम् । व꣡रु꣢꣯ण्स्य । दू꣣त꣢म् । य꣣म꣡स्य꣢ । यो꣡नौ꣢꣯ । श꣣कुन꣢म् । भु꣣रण्यु꣢म् ॥१८४६॥
स्वर रहित मन्त्र
नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥१८४६॥
स्वर रहित पद पाठ
नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुण्स्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥१८४६॥
सामवेद - मन्त्र संख्या : 1846
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 5; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३२० क्रमाङ्के सूर्यदृष्टान्तेन परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदार्थः -
हे वेन ! हे परमेशकामनामय जीवात्मन् ! (हिरण्यपक्षम्) ज्ञानकर्मरूपस्वर्णिमपक्षयुक्तम्, (वरुणस्य दूतम्) वरणीयस्य मनसः सन्मार्गे प्रेरकम्। [दु गतौ, भ्वादिः, ‘दुतनिभ्यां दीर्घश्च’ उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (यमस्य) नियन्तुः प्राणस्य (योनौ) गृहे, (देहे) इत्यर्थः (शकुनम्) शक्तिशालिनम्। [शक्लृ शक्तौ स्वादिः, ‘शकेरुनोन्तोन्त्युनयः’ उ० ३।४९ इति उनप्रत्ययः।] (भुरण्युम्) देहस्य धारयितारं पोषकं च। [भुरण धारणपोषणयोः, कण्ड्वादिः, ततो बाहुलकादौणादिको युच् प्रत्ययः।] (सुपर्णम्) अष्टाङ्गयोगरूप- शुभपर्णोपेतम्, नाके मोक्षनिमित्ते (उप पतन्तम्) प्रयतमानम् (त्वा) त्वाम् (यत्) यदा (अभ्यचक्षत) प्रभुप्रेमिणः पश्यन्ति, तदा ते (हृदा) हृदयेन (वेनन्तः) त्वां कामयमानाः जायन्ते ॥१॥
भावार्थः - देहाधिष्ठाता जीवात्माऽध्यात्मरुचिः सन्नष्टाङ्गयोगाभ्यासेन मोक्षमधिगन्तुं प्रभवति ॥१॥
इस भाष्य को एडिट करें