Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 185
ऋषिः - कण्वो घौरः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

य꣡ꣳ रक्ष꣢꣯न्ति꣣ प्र꣡चे꣢तसो꣣ व꣡रु꣢णो मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । न꣢ किः꣣ स꣡ द꣢भ्यते꣣ ज꣡नः꣢ ॥१८५॥

स्वर सहित पद पाठ

य꣢म् । र꣡क्ष꣢꣯न्ति । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । न । किः꣣ । सः꣢ । द꣣भ्यते । ज꣡नः꣢꣯ ॥१८५॥


स्वर रहित मन्त्र

यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । न किः स दभ्यते जनः ॥१८५॥


स्वर रहित पद पाठ

यम् । रक्षन्ति । प्रचेतसः । प्र । चेतसः । वरुणः । मित्रः । मि । त्रः । अर्यमा । न । किः । सः । दभ्यते । जनः ॥१८५॥

सामवेद - मन्त्र संख्या : 185
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

पदार्थः -
प्रथमः—अध्यात्मपरः। ऋचः इन्द्रदेवताकत्वाद् इन्द्रः सम्बोध्यः। हे इन्द्र मदीय अन्तरात्मन् ! (यम्) जनम् (प्रचेतसः) हृदि सदा जागरूकाः। प्रकृष्टं चेतः संज्ञानं जागरूकत्वं वा येषां ते। चिती संज्ञाने। (वरुणः) पापनिवारको गुणः। यो वारयति पापादीनि स वरुणः। वृञ् आवरणे चुरादिः, कृवृदारिभ्य उनन् उ० ३।५३ इति उनन् प्रत्ययः. (मित्रः) मित्रतायाः गुणः। डुमिञ् प्रक्षेपणे। मिनोति दोषादीन् प्रक्षिपति यो येन वा स मित्रः। अमिचिमिशसिभ्यः क्त्रः उ० ४।१६५ इति क्त्रः प्रत्ययः। (अर्यमा) न्यायकारितायाः गुणश्च। यः अर्यान् श्रेष्ठान् मिमीते यथार्थतया परिच्छिनत्ति सोऽर्यमा। अर्योपपदाद् माङ् माने धातोः श्वन्नुक्षन्पूषन्० उ० १।१५९ इति कनिन्प्रत्ययान्तो निपातः। (रक्षन्ति) विपद्भ्यस्त्रायन्ते पालयन्ति च, (स जनः) असौ मनुष्यः (न किः) न कदापि (दभ्यते) हिंस्यते। दभ्नोतिः हिंसाकर्मा। निघं० २।१९ ॥ अथ द्वितीयः—राष्ट्रपरः। (यम्) इन्द्रं राजानम् (प्रचेतसः) प्रकृष्टचित्ताः, प्रकृष्टविज्ञानाः, सदा जागरूकाः (वरुणः) पाशपाणिः२, शस्त्रास्त्रयुक्तः, शत्रुनिवारकः३, सेनापतित्वे वृतः४ श्रेष्ठः सेनाध्यक्षः मित्रः देशे विदेशे च मैत्रीसन्देशप्रसारकः मैत्रीसचिवः, (अर्यमा५) न्यायाधीशो न्यायमन्त्री वा (रक्षन्ति) त्रायन्ते (सः) असौ (जनः) जातो राजा (नकिः) न कदापि (दभ्यते) पराजीयते हिंस्यते वा ॥१॥६ अत्र श्लेषालङ्कारः ॥१॥

भावार्थः - सर्वैर्मनुष्यैः पापनिवारणस्य मैत्र्या न्यायस्य च गुणाः स्वहृदये धारणीयाः, नृपतिना च स्वराष्ट्रे सेनाध्यक्षत्व-मैत्रीसचिवत्व-न्यायाधीशत्वादिविविधपदेषु सुयोग्या एव जना नियोक्तव्याः, येन शत्रूच्छेदः प्रजोत्कर्षश्च सततं सिध्येताम् ॥१॥

इस भाष्य को एडिट करें
Top