Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1865
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
अ꣣मित्रसेनां꣡ म꣢घवन्न꣣स्मा꣡ञ्छ꣢त्रुय꣣ती꣢म꣣भि꣢ । उ꣣भौ꣡ तामि꣢꣯न्द्र वृत्रहन्न꣣ग्नि꣡श्च꣢ दहतं꣣ प्र꣡ति꣢ ॥१८६५॥
स्वर सहित पद पाठअ꣣मित्रसेना꣢म् । अ꣣मित्र । सेना꣢म् । म꣣घवन् । अस्मा꣢न् । श꣣त्रुयती꣢म् । अ꣣भि꣢ । उ꣡भौ꣢ । ताम् । इ꣣न्द्र । वृत्रहन् । वृत्र । हन् । अग्निः꣢ । च꣣ । दहतम् । प्र꣡ति꣢꣯ ॥१८६५॥
स्वर रहित मन्त्र
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि । उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥१८६५॥
स्वर रहित पद पाठ
अमित्रसेनाम् । अमित्र । सेनाम् । मघवन् । अस्मान् । शत्रुयतीम् । अभि । उभौ । ताम् । इन्द्र । वृत्रहन् । वृत्र । हन् । अग्निः । च । दहतम् । प्रति ॥१८६५॥
सामवेद - मन्त्र संख्या : 1865
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 6; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 6; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
हे (मघवन्) दिव्यैश्वर्यवन्, (वृत्रहन्) शत्रुहन्तः (इन्द्र) वीर जीवात्मन् ! (अस्मान् अभि) अस्मान् प्रति (शत्रुयतीम्) शत्रुत्वमाचरन्तीम्, (ताम्) विकरालाम् (अमित्रसेनाम्) रिपुसेनाम्, त्वम् (अग्निः च) तैजसं मनश्च (उभौ) द्वावपि (प्रतिदहतम्) भस्मीकुरुतम् ॥२॥
भावार्थः - यथा नृपतेः सेनापतेश्चोद्योगेन सर्वे बाह्याः शत्रवो निःशेषा जायन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मा मनश्च सर्वान् विघ्नान् रिपूंश्च प्रतिदग्धुं प्रभवतः ॥२॥
इस भाष्य को एडिट करें