Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 190
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
क꣢ इ꣣मं꣡ नाहु꣢꣯षी꣣ष्वा꣢꣫ इन्द्र꣣ꣳ सो꣡म꣢स्य तर्पयात् । स꣢ नो꣣ व꣢सू꣣न्या꣡ भ꣢रात् ॥१९०
स्वर सहित पद पाठकः꣢ । इ꣣म꣢म् । ना꣡हु꣢꣯षीषु । आ । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । त꣣र्पयात् । सः꣢ । नः꣣ । व꣡सू꣢꣯नि । आ । भ꣣रात् ॥१९०॥
स्वर रहित मन्त्र
क इमं नाहुषीष्वा इन्द्रꣳ सोमस्य तर्पयात् । स नो वसून्या भरात् ॥१९०
स्वर रहित पद पाठ
कः । इमम् । नाहुषीषु । आ । इन्द्रम् । सोमस्य । तर्पयात् । सः । नः । वसूनि । आ । भरात् ॥१९०॥
सामवेद - मन्त्र संख्या : 190
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
विषयः - अथेन्द्रस्य सोमरसतर्पणविषयमाह।
पदार्थः -
(नाहुषीषु) मानुषीषु प्रजासु। नहुष इति मनुष्यनाम। निघं० २।३। नह्यन्ते बध्यन्ते कर्मपाशैरिति नहुषाः१ मनुष्याः। णह बन्धने पृनहिकलिभ्य उषच्। उ० ४।७५ इति उषच् प्रत्ययः। (कः) को धन्यो जनः (इमम्) एतम् गुणगणाधारम् (इन्द्रम्) परमात्मानं, राजानम्, आचार्यम्, अतिथिं वा (सोमस्य) सोमेन श्रद्धारसेन, ज्ञानरसेन, उपासनारसेन, कर्मरसेन, ब्रह्मरसेन, क्षत्ररसेन, ब्रह्मचर्यरसेन, धर्मरसेन, यशोरसेन वा। अत्र तृतीयार्थे षष्ठी प्रयुक्ता। (आ तर्पयात्) समन्तात् तर्पयिष्यति, येन (सः) तर्पितोऽसौ (नः) अस्मभ्यम् (वसूनि) सर्वविधानि ऐश्वर्याणि (आ भरात्) आहरेत्। तर्पयात्, भरात् इत्युभयत्रापि क्रमेण तृप तृप्तौ, हृञ् हरणे धातोर्लेटि, लेटोऽडाटौ। अ० ३।४।९४ इत्याडागमः। भरात् इत्यत्र हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भः ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
भावार्थः - परमेश्वरोपासनया, श्रद्धया, ज्ञानसंग्रहेण, कर्मणा, ब्रह्मचर्येण, तपसा, श्रमेण, धर्मेण, वैराग्येण, व्रतपालनेन इत्यादिभिः शुभाचरणैरेव परमात्मनृपत्याचार्यप्रभृतयः सर्वेऽपि प्रसीदन्ति पुष्कलमैश्वर्यं च प्रयच्छन्ति ॥६॥
टिप्पणीः -
१. नहुषः शुभाशुभकर्मबद्धो मनुष्यः इति ऋ० १।२२।८ भाष्ये द०। नहुष इति मनुष्यनाम, तेषु भवाः ज्योतिष्टोमाद्याः क्रियाः नाहुष्यः—इति वि०। मानुषीषु प्रजासु—इति भ०।