Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 21
ऋषिः - प्रयोगो भार्गवः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
8
अ꣣ग्निं꣡ वो꣢ वृ꣣ध꣡न्त꣢मध्व꣣रा꣡णां꣢ पुरू꣣त꣡म꣢म् । अ꣢च्छा꣣ न꣢प्त्रे꣣ स꣡ह꣢स्वते ॥२१॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । वः꣣ । वृध꣡न्त꣢म् । अ꣣ध्वरा꣡णा꣢म् । पु꣣रूत꣡म꣢म् । अ꣡च्छ꣢꣯ । न꣡प्त्रे꣢꣯ । स꣡ह꣢꣯स्वते ॥२१॥
स्वर रहित मन्त्र
अग्निं वो वृधन्तमध्वराणां पुरूतमम् । अच्छा नप्त्रे सहस्वते ॥२१॥
स्वर रहित पद पाठ
अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरूतमम् । अच्छ । नप्त्रे । सहस्वते ॥२१॥
सामवेद - मन्त्र संख्या : 21
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
विषयः - तत्राद्ये मन्त्रे परमात्मानमुपासितुं जनान् प्रेरयति।
पदार्थः -
हे मनुष्याः ! (वः२) यूयम् (सहस्वते) प्रशस्तबलयुक्ताय। सह इति बलनाम। निघं० २।९, प्रशंसार्थे मतुप्। (नप्त्रे३) अपतनशीलाय अपत्याय, भौतिकसन्तानस्य सद्गुणादिरूपदिव्यसन्तानस्य च प्राप्तये इत्यर्थः। तादर्थ्ये चतुर्थी। न पतति पातयति वा स नप्ता नञ्पूर्वात् पत्लृधातोः नप्तृनेष्टृ०’ उ० २।९७ इति तृच्, नञः प्रकृतिभावः, धातोष्टिलोपश्च। (वृधन्तम्) वर्धयन्तम्। लुप्तणिच्कं रूपम्। (अध्वराणाम्) हिंसारहितानाम् अग्निहोत्राद्यश्वमेधान्तानां कर्मकाण्डयज्ञानाम्, यद्वा स्तुतिप्रार्थनोपासनास्वाध्यायब्रह्मयज्ञादिज्ञानयज्ञानाम् (पुरूतमम्) अतिशयेन पूरयितारम्। पिपर्ति पालयति पूरयति वा यः स पुरुः। पॄ पालन-पूरणयोः इति धातोः ‘पॄभिदिव्यधिगृधिधृषिहृषिभ्यः उ० १।२३। इत्युण्। अतिशयेन पुरुः पुरूतमः। अन्येषामपि दृश्यते अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (अग्निम्) परमात्मानम् (अच्छ४) अभिमुखा भवत। अच्छ आभिमुख्ये। संहितायां निपातस्य च अ० ६।३।१३६ इति दीर्घः ॥१॥
भावार्थः - परमेश्वर उपासकान् वर्धयति, तैरनुष्ठीयमानान् ज्ञानयज्ञान्, भक्तियज्ञान्, कर्म-यज्ञाँश्च पूर्णतां नयति, तान् सुप्रशस्तं सन्तानं सद्गुणाँश्च प्रापयति ॥१॥
टिप्पणीः -
१. ऋ० ८।१०२।७, साम० ९४६। २. छन्दसि षष्ठीचतुर्थीद्वितीयावत् प्रथमाबहुवचनेऽपि युष्मदस्मदोर्वस्नसादेशौ भवत इति प्रयोगसामर्थ्याल्लभ्यते। तथाहि—वः यूयमित्यर्थः इति भ०। वः यूयम् इति सा०। ३. नप्त्रे पुत्राय। न पतन्ति अनेन लब्धेनेति नप्ता। सहस्वते बलवते। तं लब्धुमित्यर्थः—इति भ०। ४. अच्छ अभिगच्छत इति सा०। निपाताः क्वचित् क्रियामप्यभिव्यञ्जन्ति।