Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 20
ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
3

आ꣢꣫दित्प्र꣣त्न꣢स्य꣣ रे꣡त꣢सो꣣ ज्यो꣡तिः꣢ पश्यन्ति वास꣣र꣢म् । प꣣रो꣢꣫ यदि꣣ध्य꣡ते꣢ दि꣣वि꣢ ॥२०॥

स्वर सहित पद पाठ

आ꣢त् । इत् । प्र꣣त्न꣡स्य꣢ । रे꣡त꣢꣯सः । ज्यो꣡तिः꣢꣯ । प꣣श्यन्ति । वासर꣢म् । प꣣रः꣢ । यत् । इ꣣ध्य꣡ते꣢ । दि꣣वि꣢ ॥२०॥


स्वर रहित मन्त्र

आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि ॥२०॥


स्वर रहित पद पाठ

आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् । परः । यत् । इध्यते । दिवि ॥२०॥

सामवेद - मन्त्र संख्या : 20
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

पदार्थः -
(आत् इत्) तदनन्तरमेव (प्रत्नस्य) सनातनस्य। प्रत्न इति पुराणनाम। निघं० ३।२७। (रेतसः२) रेतस्विनः वीर्यवतः परमसामर्थ्यशालिनः अग्नेः परमात्मसूर्यस्य। अत्र मत्वर्थीयस्य लोपः। (वासरम्) रागद्वेषमोहादितमोविवासनशीलं यद्वा अणिमाद्यैश्वर्यनिवासकम्। वासराणि वेसनानि विवासनानि गमनानीति वा इति निरुक्तम् ४।७। वस स्नेहच्छेदापहरणेषु इति धातोः, यद्वा णिजन्ताद् वस निवासे धातोः अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्। उ० ३।१३२ इत्यौणादिकः अर प्रत्ययः। यद्वा वासरम् दिव्यदिवसजनकम्। वासरमित्यहर्नाम। निघं० १।९। (ज्योतिः) प्रकाशम् योगदर्शनोक्तां ज्योतिष्मतीं वृत्तिं, ज्ञानदीप्तिं, विवेकख्यातिं३ वा, योगिजनाः (पश्यन्ति) साक्षात्कुर्वन्ति, (यत्) यदा, असौ (परः) परस्तात् (दिवि) आत्मरूपे द्युलोके (इध्यते) प्रदीप्यते ॥१०॥४ श्लेषेण सूर्यपक्षे ऽपि योजनीयम् ॥१०॥

भावार्थः - यथा प्रातरुदितः सूर्याग्निर्यदा मध्याह्नाकाशमारोहति तदैव जनास्तस्य तमोनिरासकं देदीप्यमानदिवसाधायकं सम्पूर्णप्रभामण्डलं पश्यन्ति, तथैव यदा योगिभिर्ध्यातः परमात्माग्निस्तेषामात्मलोके देदीप्यते तदैव ते तस्य रागद्वेषादिविनाशकं, योगसिद्धिनिवासकं, जीवन्मुक्तिप्राप्तिरूपदिवसजनकं दिव्यं ज्योतिर्द्रष्टुं पारयन्ति ॥१०॥ अत्र परमात्मनो गुणकर्मस्वभाववर्णनपूर्वकं तत्प्रसादनात्, तं प्रति नमस्करणात्, स्तोमार्पणात, परमेश्वरस्तुत्या सह कर्मण्यपि प्रेरणात्, परमज्योतिर्दर्शनवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ इति प्रथमे प्रपाठके प्रथमार्धे द्वितीया दशतिः ॥ इति प्रथमेऽध्याये द्वितीयः खण्डः ॥

इस भाष्य को एडिट करें
Top