Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 227
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

आ꣢ या꣣ह्यु꣡प꣢ नः सु꣣तं꣡ वाजे꣢꣯भि꣣र्मा꣡ हृ꣢णीयथाः । म꣣हा꣡ꣳ इ꣣व꣢ यु꣡व꣢जानिः ॥२२७॥

स्वर सहित पद पाठ

आ꣢ । या꣣हि । उ꣡प꣢꣯ । नः꣣ । सुत꣢म् । वा꣡जे꣢꣯भिः । मा । हृ꣣णीयथाः । महा꣢न् । इ꣣व । यु꣡व꣢꣯जानिः । यु꣡व꣢꣯ । जा꣣निः ॥२२७॥


स्वर रहित मन्त्र

आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । महाꣳ इव युवजानिः ॥२२७॥


स्वर रहित पद पाठ

आ । याहि । उप । नः । सुतम् । वाजेभिः । मा । हृणीयथाः । महान् । इव । युवजानिः । युव । जानिः ॥२२७॥

सामवेद - मन्त्र संख्या : 227
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

पदार्थः -
हे इन्द्र परमात्मन् ! महाँस्त्वम् (वाजेभिः) वाजैः आध्यात्मिकबलरूपैर्योगैश्वर्यरूपैश्च उपहारैः सह (नः) अस्माकम् (सुतम्) प्रारब्धमुपासनायज्ञम् (आ याहि) आगच्छ, (मा हृणीयथाः) रोषं संकोचं च (मा) कार्षीः। हृणीङ् रोषणे लज्जायां च, कण्ड्वादिः। (इव) यथा (युवजानिः) युवतिः तरुणी जाया धर्मपत्नी यस्य तादृशः (महान्) गुणैर्विशालः कश्चित् पुरुषः संकोचं रोषं च विहाय वाजैः बहुमूल्यैरुपहारैः सह भार्यामादाय परेषां यज्ञं गच्छति ॥५॥२ अत्रोपमालङ्कारः।

भावार्थः - यथा रूपवद्भार्यः कश्चिन्महान् पुरुषः सामान्यजनानामपि निमन्त्रणं स्वीकृत्योपहारानादाय भार्यया सह तेषां यज्ञं गच्छति, तथैव महानपि परमात्मा तुच्छैरप्यस्माभिरायोजिते उपासनायज्ञे आध्यात्मिकानामैश्वर्याणामुपहारं गृहीत्वा समागच्छेत् ॥५॥

इस भाष्य को एडिट करें
Top