Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 228
ऋषिः - दुर्मित्रः कौत्सः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

क꣣दा꣡ व꣢सो स्तो꣣त्रं꣡ हर्य꣢꣯त आ꣡ अव꣢꣯ श्म꣣शा꣡ रु꣢ध꣣द्वाः꣢ । दी꣣र्घ꣢ꣳ सु꣣तं꣢ वा꣣ता꣡प्या꣢य ॥२२८॥

स्वर सहित पद पाठ

क꣣दा꣢ । व꣣सो । स्तोत्र꣢म् । ह꣡र्य꣢꣯ते । आ । अ꣡व꣢꣯ । श्म꣣शा꣢ । रु꣣धत् । वा꣡रिति꣢दी꣣र्घ꣢म् । सु꣣त꣢म् । वा꣣ता꣡प्या꣢य । वा꣣त । आ꣡प्या꣢꣯य ॥२२८॥


स्वर रहित मन्त्र

कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः । दीर्घꣳ सुतं वाताप्याय ॥२२८॥


स्वर रहित पद पाठ

कदा । वसो । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारितिदीर्घम् । सुतम् । वाताप्याय । वात । आप्याय ॥२२८॥

सामवेद - मन्त्र संख्या : 228
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

पदार्थः -
प्रथमः—भौतिकवृष्टिपरः। चिरकालीनवृष्टिव्युपरमे सति जलाभावपीडितः कश्चिदाह। हे (वसो) निवासप्रद इन्द्र जगदीश्वर ! वृष्ट्यर्थम् (स्तोत्रम्) स्तोमम् (हर्यते) त्वां प्रति गमयते मह्यम्। हर्य गतिकान्त्योः शतरि चतुर्थ्येकवचने रूपम्। (कदा) कस्मिन् काले (श्मशा२) वृष्ट्युदकपूर्णा नदी कुल्या वा। श्मशा शु अश्नुते इति वा, श्म अश्नुते इति वा। निरु० ५।१२। (वाः) उदकम् (आ अवरुधत्) आनीय क्षेत्रजलाशयादौ अवरोत्स्यति। रुधिर् आवरणे धातोर्लेटि रूपम्। मया (वाताप्याय३) उदकाय। वाताप्यम् उदकं भवति, वात एतदाप्याययति। निरु० ६।२८। (दीर्घम्) दीर्घकालं यावत् (सुतम्) वृष्टियागो निष्पादितः। अथ द्वितीयः—अध्यात्मवृष्टिपरः। दिव्यानन्दरसपूर्णस्य परमेश्वरस्य सकाशादानन्दवृष्टिं कामयमानः कश्चिदाह। हे (वसो) निर्धनस्य मम धनभूत, निवासप्रद जगदीश्वर ! आनन्दरसवर्षणार्थम् (स्तोत्रम्) स्तुतिम् (हर्यते) त्वां प्रति गमयते मह्यम् (कदा) कस्मिन् काले (श्मशा) त्वत्सकाशात् प्रवहन्ती आनन्दवारिधारा (वाः) आनन्दरसम् (आ अवरुधत्) आनीय मदीये हृदयरूपे क्षेत्रे जलाशये वा अवरोत्स्यति ? हे रसागार ! चिरदुःखदावाग्निदग्धेन मया (वाताप्याय) दिव्यानन्दवारिवर्षणाय (दीर्घम्) सुदीर्घकालं यावत् (सुतम्) श्रद्धारसप्रस्रवणपूर्वकम् अध्यात्मयागो निष्पादितः। तथापि किमिति आनन्दवारिवर्षा मां न प्राप्नुवन्ति ॥६॥ अत्र श्लेषालङ्कारः ॥६॥

भावार्थः - यथाऽनावृष्टौ जातायां वर्षणार्थं दीर्घो वृष्टियज्ञोऽनुष्ठीयते तथैवानन्दरसपिपासुरहमानन्दरसवृष्टिमाप्तुं दीर्घं ध्यानयज्ञं चिरादनुतिष्ठन्नस्मि। हे प्रभो ! तथापि किमिति त्वमानन्दवारि न वर्षयसि ? वर्षय, वर्षय, देव ! दिव्यानन्दं वर्षय। अन्यथा बहुविधसांसारिकसंतापसंतप्तोऽहं नोत्सहिष्ये जीवनमपि धारयितुम् ॥६॥

इस भाष्य को एडिट करें
Top