Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 23
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
5
अ꣡ग्ने꣢ मृ꣣ड꣢ म꣣हा꣢ꣳ अ꣣स्य꣢य꣣ आ꣡ दे꣢व꣣युं꣡ जन꣢꣯म् । इ꣣ये꣡थ꣢ ब꣣र्हि꣢रा꣣स꣡द꣢म् ॥२३॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । मृ꣣ड꣢ । म꣣हा꣢न् । अ꣣सि । अ꣡यः꣢꣯ । आ । दे꣣वयु꣢म् । ज꣡न꣢꣯म् । इ꣣ये꣡थ꣢ । ब꣣र्हिः꣢ । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢म् ॥२३॥
स्वर रहित मन्त्र
अग्ने मृड महाꣳ अस्यय आ देवयुं जनम् । इयेथ बर्हिरासदम् ॥२३॥
स्वर रहित पद पाठ
अग्ने । मृड । महान् । असि । अयः । आ । देवयुम् । जनम् । इयेथ । बर्हिः । आसदम् । आ । सदम् ॥२३॥
सामवेद - मन्त्र संख्या : 23
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
विषयः - अथ परमात्मानं सुखं प्रार्थयते।
पदार्थः -
हे (अग्ने) प्रकाशस्वरूप जगन्नायक परमात्मन् ! (मृड) मां सुखय। मृड सुखने, लोण्मध्यमैकवचनम्। त्वम् (महान्) महिमोपेतः (असि) वर्त्तसे। त्वम् (देवयुम्) देवान् दिव्यगुणान् देवं परमात्मानं वाऽऽत्मनः कामयते स देवयुस्तम्, दिव्यगुणाभिलाषिणं परमात्माभिलाषिणं वा। क्यचि क्याच्छन्दसि अ० ३।२।१७० इत्युप्रत्ययः। (जनम्) त्वद्भक्तं माम् (अयः) प्राप्तोऽसि। अय गतौ, भ्वादिः लङ्, व्यत्ययेन परस्मैपदम्। बर्हिः हृदयासनम् (आसदम्) आसत्तुम्, उपवेष्टुम्। आङ्पूर्वात् षद्लृ विशरणगत्यवसादनेषु धातोस्तुमर्थे णमुल्। (इयेथ) आयातोऽसि। इण् गतौ धातोः छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति वर्त्तमानेऽर्थे लिट् ॥३॥
भावार्थः - हे परमेश्वर ! अन्तर्यामिन् ! त्वं परमकृपया त्वद्भक्तस्य मम हृदयासनमध्यासितुं समागतोऽसि। सततं दिव्यगुणसन्निधिं त्वत्सन्निधिञ्च कामयमानोऽहं त्वदनुग्रहं याचे। त्वं महानसि, मद्विषयेऽपि स्वं महिमानं चरितार्थं कुरु। सर्वदा मामानन्दय ॥३॥
टिप्पणीः -
१. ऋ० ४।९।१ अय आ इत्यत्र य ईमा इति पाठः। ऋग्भाष्ये दयानन्दर्षिः मन्त्रमिमं विद्वत्सत्कारविषये व्याख्यातवान्