Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 24
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
6

अ꣢ग्ने꣣ र꣡क्षा꣢ णो꣣ अ꣡ꣳह꣢सः꣣ प्र꣡ति꣢ स्म देव रीष꣣तः꣢ । त꣡पि꣢ष्ठैर꣣ज꣡रो꣢ दह ॥२४॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । र꣡क्ष꣢꣯ । नः꣣ । अँ꣡ह꣢꣯सः । प्र꣡ति꣢꣯ । स्म꣣ । देव । रीषतः꣢ । त꣡पि꣢꣯ष्ठैः । अ꣣ज꣡रः꣢ । अ꣣ । ज꣡रः꣢꣯ । द꣣ह ॥२४॥


स्वर रहित मन्त्र

अग्ने रक्षा णो अꣳहसः प्रति स्म देव रीषतः । तपिष्ठैरजरो दह ॥२४॥


स्वर रहित पद पाठ

अग्ने । रक्ष । नः । अँहसः । प्रति । स्म । देव । रीषतः । तपिष्ठैः । अजरः । अ । जरः । दह ॥२४॥

सामवेद - मन्त्र संख्या : 24
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

पदार्थः -
हे (अग्ने) ज्योतिष्मन् परमात्मन् ! त्वम् (नः) अस्मान्। संहितायां नश्च धातुस्थोरुषुभ्यः अ० ८।४।२७ इति नस्य णः। (अंहसः) पापाचरणात् (रक्ष) परित्रायस्व। संहितायां द्व्यचोऽतस्तिङः अ० ६।३।१३५ इति दीर्घः। हे (देव) दिव्यगुणकर्मस्वभाव, सकलैश्वर्यप्रदातः, प्रकाशमान, सर्वप्रकाशक ! (देवो) दानाद्वा, दीपनाद्वा, द्योतनाद्वा इति निरुक्तम्। ७।१५। (अजरः) स्वयं हिंसाजर्जरत्वादिरहितस्त्वम् (रिषतः) अस्माकं हिंसापरायणान् आन्तरान् बाह्यांश्च शत्रून् रीषतः इति संहितायां छान्दसं दीर्घत्वम्। (तपिष्ठैः) सन्तापकतमैः स्वकीयैः तेजोभिः (प्रति दह स्म) भस्मसात् कुरु ॥४॥२ अत्र श्लेषेण भौतिकाग्निपक्षे राजपक्षे चाप्यर्थो योजनीयः ॥४॥३

भावार्थः - यथा भौतिकाग्निः शीतादन्धकाराद् व्याघ्रादिभ्यश्च रक्षति, यथा वा राजा पापिनो दण्डयित्वाऽऽक्रामकान् रिपूँश्च पराजित्य प्रजां पापाच्छत्रुभ्यश्च रक्षति, तथैव परमात्माऽस्मभ्यमात्मरक्षायाः सामर्थ्यं दत्त्वाऽस्मान् पापाचरणादान्तराद् बाह्याच्च शत्रोः रक्षेत् ॥४॥

इस भाष्य को एडिट करें
Top