Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 230
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
6
व꣣यं꣡ घा꣢ ते꣣ अ꣡पि꣢ स्मसि स्तो꣣ता꣡र꣢ इन्द्र गिर्वणः । त्वं꣡ नो꣢ जिन्व सोमपाः ॥२३०॥
स्वर सहित पद पाठव꣣य꣢म् । घ꣣ । ते । अ꣡पि꣢꣯ । स्म꣣सि । स्तोता꣡रः꣢ । इ꣣न्द्र । गिर्वणः । गिः । वनः । त्व꣢म् । नः꣣ । जिन्व । सोमपाः । सोम । पाः ॥२३०॥
स्वर रहित मन्त्र
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः । त्वं नो जिन्व सोमपाः ॥२३०॥
स्वर रहित पद पाठ
वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः । गिः । वनः । त्वम् । नः । जिन्व । सोमपाः । सोम । पाः ॥२३०॥
सामवेद - मन्त्र संख्या : 230
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
विषयः - अथ परमात्मनः स्तुतिविषयमाह।
पदार्थः -
हे (गिर्वणः२) गीर्भिः वेदवाग्भिः वननीय संभजनीय (इन्द्र) परमैश्वर्यवन् परमात्मन् ! वयम् (स्तोतारः) स्तुतिकर्त्तारः (घ) नूनम्। संहितायां ‘ऋचि तु नु घ०’ अ० ६।३।१३६ इति दीर्घः। (ते अपि) तवैव (स्मसि) स्मः भवामः। ‘इदन्तो मसि’ अ० ७।१।४६ इति मस इदन्तत्वम्। हे (सोमपाः) अस्माकं मैत्रीरसस्य पातः ! (त्वम् नः) अस्मान् (जिन्व) प्रीणय। जिवि प्रीणनार्थे भ्वादिः ॥८॥
भावार्थः - ये परमात्मना सम्बन्धं योजयन्ति परमात्मापि तान् सदा सुखयति ॥८॥
टिप्पणीः -
१. ऋ० ८।३२।७ ‘स्मसि’ इत्यत्र ‘ष्मसि’ इति पाठः। २. द्रष्टव्यम्—१६५ संख्यकस्य मन्त्रस्य व्याख्यानम्।