Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 236
ऋषिः - नोधा गौतमः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

तं꣡ वो꣢ द꣣स्म꣡मृ꣢꣫ती꣣ष꣢हं꣣ व꣡सो꣢र्मन्दा꣣न꣡मन्ध꣢꣯सः । अ꣣भि꣢ व꣣त्सं꣡ न स्वस꣢꣯रेषु धे꣣न꣢व꣣ इ꣡न्द्रं꣢ गी꣣र्भि꣡र्न꣢वामहे ॥२३६॥

स्वर सहित पद पाठ

त꣢म् । वः꣣ । दस्म꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ति । स꣡ह꣢꣯म् । व꣡सोः꣢꣯ । म꣣न्दान꣢म् । अ꣡न्ध꣢꣯सः । अ꣣भि꣢ । व꣣त्स꣢म् । न । स्व꣡स꣢꣯रेषु । धे꣣न꣡वः꣣ । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । न꣣वामहे ॥२३६॥


स्वर रहित मन्त्र

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥२३६॥


स्वर रहित पद पाठ

तम् । वः । दस्मम् । ऋतीषहम् । ऋति । सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे ॥२३६॥

सामवेद - मन्त्र संख्या : 236
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थः -
हे सखायः (वः) युष्माकम्, अस्माकं चेत्यपि द्योत्यते (दस्मम्२) दर्शनीयम्, यद्वा दुःखानामुपक्षयितारम्। दसि दंशनदर्शनयोः, दसु उपक्षये, ‘इषि युधीन्धिदसि’ उ० १।१४५ इति मक् प्रत्ययः। (ऋतीषहम्३) ऋतय आक्रान्तारः शत्रवस्तेषामभिभवितारम्। ऋ गतौ धातोः क्तिनि ऋतिः। ऋतिपूर्वात्, मर्षणार्थाद् अभिभवार्थाद् वा षह धातोः ‘छन्दसि सहः’ अ० ३।२।६३ इति ण्विः। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (वसोः) वसुनः धनभूतात् (अन्धसः) भक्तिरूपात् सोमरसात्। अन्ध इति सोमनाम। निरु० १३।६। (मन्दानम्) आनन्दन्तम् (तम्) प्रसिद्धम् (इन्द्रम्) परमेश्वरम् (अभि) अभिलक्ष्य (स्वसरेषु४) दिनोदयेषु गृहेषु वा। स्वसराणि अहानि भवन्ति, स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति। निरु० ५।४। गृहनाम। निघं० ३।४। (गीर्भिः) वाग्भिः, वयम् (नवामहे) स्तुमः। णु स्तुतौ अदादिः, लटि ‘बहुलं छन्दसि’ अ० २।४।७३ इति शपो लुक् न, आत्मनेपदं छान्दसम्। (न) यथा। न इत्युपमार्थीयः। निरु० १।४। (धेनवः) पयस्विन्यो गावः (वत्सम् अभि) वत्समभिलक्ष्य (स्वसरेषु) दिनोदयेषु प्रातर्दोहनवेलासु गोष्ठरूपेषु गृहेषु वा नुवन्ति हम्भारवं कुर्वन्ति ॥४॥५ अत्रोपमालङ्कारः ॥४॥

भावार्थः - यथा गोष्ठेषु स्थिता गावो दिनारम्भेषु पयः पाययितुं वत्सं प्रति प्रेम्णा हम्भारवं कुर्वन्ति तथैव परमात्मानं प्रति प्रजाभिरस्माभिः प्रेमनिर्भराभिर्भूत्वा स्तुतिगीतानि गेयानि ॥४॥

इस भाष्य को एडिट करें
Top