Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 237
ऋषिः - कलिः प्रागाथः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
9

त꣡रो꣣भिर्वो वि꣣द꣡द्व꣢सु꣣मि꣡न्द्र꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ । बृ꣣ह꣡द्गाय꣢꣯न्तः सु꣣त꣡सो꣢मे अध्व꣣रे꣢ हु꣣वे꣢꣫ भरं꣣ न꣢ का꣣रि꣡ण꣢म् ॥२३७॥

स्वर सहित पद पाठ

त꣡रो꣢꣯भिः । वः꣣ । विद꣡द्व꣢सुम् । वि꣣द꣢त् । व꣣सुम् । इ꣡न्द्र꣢꣯म् । स꣣बा꣡धः꣢ । स꣣ । बा꣡धः꣢꣯ । ऊ꣣त꣡ये꣢ । बृ꣣ह꣢त् । गा꣡य꣢꣯न्तः । सु꣣त꣡सो꣢मे । सु꣣त꣢ । सो꣣मे । अध्वरे꣢ । हु꣣वे꣢ । भ꣡र꣢म् । न । का꣣रि꣡ण꣢म् ॥२३७॥


स्वर रहित मन्त्र

तरोभिर्वो विदद्वसुमिन्द्रꣳ सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥२३७॥


स्वर रहित पद पाठ

तरोभिः । वः । विदद्वसुम् । विदत् । वसुम् । इन्द्रम् । सबाधः । स । बाधः । ऊतये । बृहत् । गायन्तः । सुतसोमे । सुत । सोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥२३७॥

सामवेद - मन्त्र संख्या : 237
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थः -
हे सखायः ! (वः) यूयम् (सबाधः२) बाधाभिराक्रान्ताः सन्तः। बाधते इति बात्, बाधृधातोः क्विप्। बाधा बाधया सहिताः सबाधः। (ऊतये) रक्षायै (सुतसोमे) सुतः अभिषुतः सोमः श्रद्धारसः कर्मरसश्च यस्मिन् तथाविधे (अध्वरे) हिंसारहिते जीवनयज्ञे (तरोभिः) वेगपूर्वकं बलपूर्वकं च। तरस् इति वेगवाचकं लोके प्रसिद्धम्। बलनाम। निघं० २।९। (विदद्वसुम्३) वेदयद्वसुम् भौतिकाध्यात्मिकैश्वर्यप्रदातारम् (इन्द्रम्) परमेश्वरम् (बृहत्) प्रचुरम् (गायन्तः) गानविषयीकुर्वन्तः भवत। अहमपि (भरम् न) कुटुम्बभरणकर्त्तारं गृहपतिमिव (कारिणम्४) कर्मयोगिनं तम् इन्द्रं परमेश्वरम्। कर्तुं शीलं यस्य स कारी तम्। डुकृञ् करणे धातोश्छन्दस्युपपदाभावेऽपि ताच्छील्ये णिनिर्विज्ञेयः। (हुवे) आह्वयामि ॥५॥ अत्रोपमालङ्कारः ॥५॥

भावार्थः - यदा यदा मनुष्याः स्वजीवने विघ्नबाधाभिः पीड्यन्ते तदा तदा तैः परमेश्वरः स्मरणीयः। स्मृतः स तान् पुरुषार्थे कर्मयोगे च प्रवर्तयति। यथा कश्चिद् गृहपतिः कर्मपरायण एव सन् कुटुम्बभरणक्षमो जायते, तथैव परमेश्वरोऽपि कर्मपरायण एव सन् विश्वं बिभर्ति, सर्वानुपासकाँश्चापि कर्मयोगे प्रेरयति ॥५॥

इस भाष्य को एडिट करें
Top