Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 238
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
9

त꣣र꣢णि꣣रि꣡त्सि꣢षासति꣣ वा꣢जं꣣ पु꣡र꣢न्ध्या यु꣣जा꣢ । आ꣢ व꣣ इ꣡न्द्रं꣢ पुरुहू꣣तं꣡ न꣢मे गि꣣रा꣢ ने꣣मिं꣡ तष्टे꣢꣯व सु꣣द्रु꣡व꣢म् ॥२३८॥

स्वर सहित पद पाठ

त꣣र꣡णिः꣢ । इत् । सि꣣षासति । वा꣡जम् । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । युजा꣢ । आ । वः꣣ । इ꣡न्द्र꣢꣯म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । न꣣मे । गिरा꣢ । ने꣣मि꣢म् । त꣡ष्टा꣢꣯ । इ꣣व । सुद्रु꣡व꣢म् । सु꣣ । द्रु꣡व꣢꣯म् ॥२३८॥


स्वर रहित मन्त्र

तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥२३८॥


स्वर रहित पद पाठ

तरणिः । इत् । सिषासति । वाजम् । पुरन्ध्या । पुरम् । ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । पुरु । हूतम् । नमे । गिरा । नेमिम् । तष्टा । इव । सुद्रुवम् । सु । द्रुवम् ॥२३८॥

सामवेद - मन्त्र संख्या : 238
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थः -
(तरणिः२ इत्) दुःखेभ्यस्तारकः इन्द्रः परमेश्वरः नृपश्चैव (युजा) सदा सहचरीभूतया (पुरन्ध्या३) महत्या बुद्ध्या क्रियया च। पुरु बहुनाम। निघं० ३।१। धीः कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। पुरन्धिर्बहुधीरिति यास्कः। निरु० ६।१३। (वाजम्) बलं धनं विज्ञानं वा (सिषासति४) सत्पात्रेभ्यः संभजति ददाति वा। षण संभक्तौ, षणु दाने वा धातोः सन्नन्तं रूपम्। ‘जनसनखनां सञ्झलोः’ अ० ६।४।४२ इत्यात्वम्। अतोऽहं (पुरुहूतम्) बहुस्तुतम् (इन्द्रम्) तं परमेश्वरं नृपं वा (गिरा) वाचा (वः) युष्मभ्यम् (आनमे) आनयामि कार्ये प्रवृत्तं करोमि, (तष्टा इव) शिल्पी यथा (नेमिम्) रथचक्रवलयम् (सुद्रुवम्५) सुप्रवृत्तां करोति तद्वत् ॥६॥ अत्र श्लेषोपमालङ्कारौ ॥६॥

भावार्थः - सुप्रज्ञः सुकर्मा च परमेश्वरो नृपो वा यथायोग्यं जनेभ्यः सुखधनविद्यादिकं प्रयच्छतीति प्रार्थनावचोभिस्तयोः स्वाभिमुखं प्रवृत्तिः सर्वैः कारणीया। यथा रथचक्रस्य प्रवृत्त्यैव रथाधिष्ठिता जना गन्तव्यं स्थानं प्राप्तुमर्हन्ति तथैव परमेश्वरस्य नृपस्य च प्रजाभिमुखं प्रवृत्त्यैव जनानामभ्युदयः सम्भवति ॥६॥६

इस भाष्य को एडिट करें
Top