Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 240
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न्ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥२४०॥

स्वर सहित पद पाठ

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣣वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥२४०॥


स्वर रहित मन्त्र

त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥२४०॥


स्वर रहित पद पाठ

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥२४०॥

सामवेद - मन्त्र संख्या : 240
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमेश्वर राजन् वा ! (त्वं हि) त्वं खलु (चेरवे२) चरतीति चेरुः तस्मै संचरणकर्त्रे पुरुषार्थिने मह्यम् (आ इहि) आगच्छ, (वसुत्तये३) वसुदानकर्त्रे मह्यम्। वसुपूर्वाद् डुदाञ् धातोः क्तिनि निरुपसर्गत्वेऽपि छान्दसत्वात् ‘अच उपसर्गात्तः’ अ० ७।४।४७ इत्यनेन विहितस्तकारादेशो भवति। (भगम्) वसु (विदाः) लम्भय। विद्लृ लाभे धातोरन्तर्भावितण्यर्थात् लेटि सिपि ‘लेटोऽडाटौ’ अ० ३।४।९४ इति आडागमः। हे (मघवन्) ऐश्वर्यशालिन् ! त्वम् (गविष्टये४) गवाम् इन्द्रिय-पृथिवीराज्य-विद्याप्रकाशानाम् इष्टयः इच्छाः यस्य स गविष्टिः तस्मै मह्यम् (उद्वावृषस्व५) उद्वरीवृष्यस्व धनविद्यादिकम् अतिशयेन पुनः पुनः उद्वर्षय। अत्र यङि छान्दसत्वात् ‘रीगृदुपधस्य च’ अ० ७।४।९० इति प्राप्तो रीगागमो न भवति। त्वम् (अश्वमिष्टये६) अश्वम् तुरगबलवेगप्राणादिकम् इच्छतीति अश्वमिष्टिः तस्मै मह्यम्। अत्र समासे द्वितीयाया अलुक् छान्दसः। (उद्वावृषस्व) अतिशयेन पुनःपुनरुद्वर्षय ॥८॥ अत्र श्लेषालङ्कारः। ‘एहि, विदाः, उद्वावृषस्व’, इति सर्वासां क्रियाणामेककर्तृकारकसम्बन्धाद् दीपकमपि। ‘ष्टय, ष्टये’ इति छेकानुप्रासः, द्वितीय-चतुर्थपादान्ते ‘अये, अये’ इति श्रवणादन्त्यानुप्रासश्च ॥८॥

भावार्थः - परमेश्वरो राजादयो राज्याधिकारिणश्च तस्यैव साहाय्यं कुर्वन्ति यः ‘चरैवेति चरैवेति’, (ऐ० ब्रा० ७।३।३) इत्युपदेशं स्वजीवने चरितार्थयति, पुरुषार्थेन च धनं संचित्य सत्पात्रेषु तस्य दानमपि करोति ॥८॥

इस भाष्य को एडिट करें
Top