Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 272
ऋषिः - कलिः प्रागाथः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

व꣣य꣡मे꣢नमि꣣दा꣡ ह्योपी꣢꣯पेमे꣣ह꣢ व꣣ज्रि꣡ण꣢म् । त꣡स्मा꣢ उ अ꣣द्य꣡ सव꣢꣯ने सु꣣तं꣡ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत श्रु꣣ते꣢ ॥२७२॥

स्वर सहित पद पाठ

व꣣य꣢म् । ए꣣नम् । इदा꣢ । ह्यः । अ꣡पी꣢꣯पेम । इ꣣ह꣢ । व꣣ज्रि꣡ण꣢म् । त꣡स्मै꣢꣯ । उ꣣ । अद्य꣢ । अ꣣ । द्य꣢ । स꣡व꣢꣯ने । सु꣣त꣢म् । भ꣣र । आ꣢ । नू꣣न꣢म् । भू꣣षत । श्रुते꣢ ॥२७२॥


स्वर रहित मन्त्र

वयमेनमिदा ह्योपीपेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥२७२॥


स्वर रहित पद पाठ

वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् । तस्मै । उ । अद्य । अ । द्य । सवने । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥२७२॥

सामवेद - मन्त्र संख्या : 272
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

पदार्थः -
प्रथमः—अध्यात्मपरः। (वयम्) उपासकाः (एनम्) एतं विश्रुतगुणम् (वज्रिणम्) दुर्जनेषु दुर्गुणेषु वा वज्रधारिणं, स्वशक्त्या तेषां विनाशकमित्यर्थः, इन्द्रं परमेश्वरम् (इदा) इदानीम्। ‘तयोर्दार्हिलौ च छन्दसि। अ० ५।३।२०’ इति इदम् शब्दात् कालेऽर्थे सप्तम्या दा आदेशः। (ह्यः) गतदिवसे च (इह) अस्मिन् उपासनायज्ञे (अपीपेम) स्तुतिगानेन स्वहृदि अवर्धयाम, प्रसादितवन्तः इत्यर्थः। ओप्यायी वृद्धौ धातोर्णिजन्तात् युङ्लुकि प्यायः पी आदेशे रूपम्। हे भ्रातः ! त्वमपि (तस्मै उ) तस्मै इन्द्राय परमेश्वराय खलु (अद्य) अस्मिन् दिने (सवने) जीवनयज्ञे (सुतम्) श्रद्धारूपं सोमरसम् (भर) हृदये धारय अर्पय वा। भृञ् भरणे भ्वादेः हृञ् हरणे इत्यस्य वा रूपम्। हे सखायः ! यूयम् सर्वेऽपि (नूनम्) निश्चयेन (श्रुते) वेदादिद्वारा तन्महिम्नि श्रुते सति (आभूषत तं) स्तोत्ररूपैरुपहारैरलंकुरुत तेन स्वहृदयं वा अलंकुरुत। भूष अलङ्कारे, भ्वादिः ॥ अथ द्वितीयः—राष्ट्रपरः। (वयम्) जनाः (वज्रिणम्) दुष्टेषु शत्रुषु तस्करवञ्चकलुण्ठकादिषु च वज्रहस्तं, दण्डधारिणम् (एनम्) इन्द्रं सम्राजम् (इदा) इदानीं वर्तमानकाले (ह्यः) गते च काले (इह) अस्मिन् राष्ट्रयज्ञे (अपीपेम) करप्रदानेन वर्द्धितवन्तः। हे (भ्रातः) त्वमपि (तस्मै उ) तस्मै सम्राजे (अद्य) अद्यतने काले (सवने) राष्ट्रयज्ञे (सुतम्) स्वकीयात् आयराशेरभिषुतं पृथक्कृतं राजदेयं करम् (भर) प्रदेहि। हे इतरे प्रजाजनाः ! यूयमपि (नूनम्) निश्चयेन (श्रुते) तदादेशे आकर्णिते सति, तम् (आभूषत) स्वस्वदेयांशदानेन अलंकुरुत ॥१०॥ अत्र श्लेषालङ्कारः ॥१०॥

भावार्थः - सर्वैर्मनुष्यैर्दुर्जनानां दुर्गुणानां च विनाशकः सज्जनानां सद्गुणानां च पोषकः परमेश्वर उपासनीयः। तथैव दुष्टानां रिपूणां, चौरलम्पटप्रतारकलुण्ठकादीनाम्, अशान्तिप्रसारकाणां च दण्डयिता सज्जनानां शान्तिप्रियाणां च निवासकः सम्राडपि सर्वैः करप्रदानेन सम्माननीयः ॥१०॥ अत्रेन्द्रस्य गुणानुपवर्ण्य तन्महिमानं गातुं प्रेरणात्, ततो गृहादिकस्य याचनात्, तस्याह्वानाद्, इन्द्रनाम्ना नृपादीनां चापि वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्ति ॥ इति तृतीये प्रपाठके द्वितीयार्धे तृतीया दशतिः। इति तृतीयाध्याये चतुर्थः खण्डः ॥

इस भाष्य को एडिट करें
Top