Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 279
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

य꣡दि꣢न्द्र꣣ प्रा꣢꣫गपा꣣गु꣢द꣣꣬ग्न्य꣢꣯ग्वा हू꣣य꣢से꣣ नृ꣡भिः꣢ । सि꣡मा꣢ पु꣣रू꣡ नृषू꣢꣯तो अ꣣स्या꣢न꣣वे꣢ऽसि꣢ प्रशर्ध तु꣣र्व꣡शे꣢ ॥२७९॥

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । प्रा꣢क् । अ꣡पा꣢꣯क् । अ꣡प꣢꣯ । अ꣣क् । उ꣡द꣢꣯क् । उत् । अ꣣क् । न्य꣢꣯क् । नि । अ꣣क् । वा । हूय꣡से꣢ । नृ꣡भिः꣢꣯ । सि꣡म꣢꣯ । पु꣣रू꣢ । नृ꣡षू꣢꣯तः । नृ । सू꣣तः । असि । आ꣡न꣢꣯वे । अ꣡सि꣢꣯ । प्र꣣शर्ध । प्र । शर्द्ध । तु꣡र्वशे꣢ ॥२७९॥


स्वर रहित मन्त्र

यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः । सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥२७९॥


स्वर रहित पद पाठ

यत् । इन्द्र । प्राक् । अपाक् । अप । अक् । उदक् । उत् । अक् । न्यक् । नि । अक् । वा । हूयसे । नृभिः । सिम । पुरू । नृषूतः । नृ । सूतः । असि । आनवे । असि । प्रशर्ध । प्र । शर्द्ध । तुर्वशे ॥२७९॥

सामवेद - मन्त्र संख्या : 279
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

पदार्थः -
(यत्) यस्मात्, हे (इन्द्र) जगदीश्वर ! त्वम् (प्राक्) पूर्वस्यां दिशि, (अपाक्) पश्चिमायां दिशि, (उदक्) उत्तरस्यां दिशि, (न्यक्२ वा) दक्षिणस्यां दिशि च। वा इति समुच्चयार्थो निरुक्ते प्रोक्तः। निरु० १।५। (नृभिः) स्तोतृजनैः (हूयसे) आहूयसे, गीयसे इत्यर्थः, (तत्) तस्मात् (नृषूतः३) नृभिः तैः स्तोतृभिः सूतः प्रेरितः प्रचारितः त्वम्। सूतः इति षू प्रेरणे इत्यस्य रूपम्। संहितायां ‘पूर्वपदात्। अ० ८।३।१०६’ इति मूर्धन्यादेशः। (पुरु) बहुषु रूपेषु, संहितायां छान्दसो दीर्घः। (सिमा४) सिमस्मिन् सर्वत्र। सिम इति सर्वनाम सर्वपर्यायः। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (आनवे) अनिति प्राणिति इति अनुः, प्रशस्तप्राणो जनः, तस्यापत्ये मानवसन्ततौ इत्यर्थः। अनुरिति मनुष्यनाम। निरु० २।३। (असि) विद्यसे, विदितो भवसि। किञ्च, हे (प्रशर्ध) प्रकर्षेण शर्धयितः पराभिभावुक ! प्र पूर्वस्य शृधु प्रसहने इत्यस्य रूपम्। त्वम् (तुर्वशे) यः तुर्वति हिनस्ति विघ्नबाधाजालं स तुर्वशः पुरुषार्थी जनः तस्मिन्, तत्साहाय्यार्थमित्यर्थः। तुर्वश इति मनुष्यनाम। निघं० २।३। तुर्वी हिंसार्थः ततः अशच् प्रत्ययः, (असि) तत्साहाय्यार्थं विद्यमानो भवसि ॥७॥

भावार्थः - दिशि दिशि परमात्मनः प्रचारोऽस्माभिर्विधेयः, तदैव मानवजातेः कल्याणं भवितुमर्हति ॥७॥ अत्र सायणस्य ‘आनवे अनुर्नाम राजा तस्य पुत्रे राजर्षौ’, ‘तुर्वशे एतत्संज्ञे च राजनि’ इति व्याख्यानं न समञ्जसं, सृष्ट्यादौ प्रादुर्भूतेषु वेदेषु पश्चाद्वर्तिनो मानवेतिहासस्यासंभवात्, निघण्टौ च अनु-तुर्वशयोः मनुष्यनामसु पाठात् ॥

इस भाष्य को एडिट करें
Top