Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 281
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
7

इ꣡न्द्रा꣢ग्नी अ꣣पा꣢दि꣣यं꣡ पूर्वागा꣢꣯त्प꣣द्व꣡ती꣢भ्यः । हि꣢त्वा꣡ शिरो꣢꣯ जि꣣ह्व꣢या꣣ रा꣡र꣢प꣣च्च꣡र꣢त्त्रि꣣ꣳश꣢त्प꣣दा꣡ न्य꣢क्रमीत् ॥२८१॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । अ꣣पा꣢त् । अ꣣ । पा꣢त् । इ꣣य꣢म् । पू꣡र्वा꣢꣯ । आ । अ꣣गात् । पद्व꣡ती꣢भ्यः । हि꣣त्वा꣢ । शि꣡रः꣢꣯ । जि꣣ह्व꣡या꣢ । रा꣡र꣢꣯पत् । च꣡र꣢꣯त् । त्रिँ꣣श꣢त् । प꣣दा꣡नि꣢ । अ꣣क्रमीत् ॥२८१॥


स्वर रहित मन्त्र

इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । हित्वा शिरो जिह्वया रारपच्चरत्त्रिꣳशत्पदा न्यक्रमीत् ॥२८१॥


स्वर रहित पद पाठ

इन्द्राग्नी । इन्द्र । अग्नीइति । अपात् । अ । पात् । इयम् । पूर्वा । आ । अगात् । पद्वतीभ्यः । हित्वा । शिरः । जिह्वया । रारपत् । चरत् । त्रिँशत् । पदानि । अक्रमीत् ॥२८१॥

सामवेद - मन्त्र संख्या : 281
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

पदार्थः -
प्रथमः—श्रद्धापक्षे। इन्द्राग्नी सम्बोध्य पूर्वस्मिन् मन्त्रे प्रोक्ता श्रद्धा वर्ण्यते। ‘सा हि जननीव योगिनं पाति’ इति योगभाष्ये (योग १।२०) वेदव्यासः। अथ मन्त्रार्थः। हे (इन्द्राग्नी) परमात्मजीवात्मानौ ! युवयोः सान्निध्यात्। आमन्त्रितत्वात् षाष्ठेन ‘आमन्त्रितस्य च। अ० ६।१।१९८’ इति सूत्रेणाद्युदात्तत्वम्, न चाष्टमिकः (अ० ८।१।१९) प्रवर्तते पादादित्वात्। (अपात्) पादरहितापि सती (इयम्) एषा पूर्वमन्त्रोक्ता श्रद्धा (पद्वतीभ्यः) पादसहिताभ्यः प्रजाभ्यः (पूर्वा) पूर्वगामिनी सती (आ अगात्) समागतास्ति। (शिरः) मूर्धानम् (हित्वा) त्यक्त्वाऽपि, शिरोरहितापीत्यर्थः, ओहाक् त्यागे, क्त्वाप्रत्यये ‘जहातेश्च क्त्वि। अ० ७।४।४३’ इति धातोर्हिः आदेशः। इयम् (जिह्वया) रसनया (रारपत्) लालपत् यथा स्यात् तथेव, इति लुप्तोपमम्। स्वं सन्देशं वदन्तीवेत्यर्थः। रप व्यक्तायां वाचि इति धातर्यङ्लुगन्तस्य शतरि रूपम्। (चरत्) विचरति। चर गतिभक्षणयोः, लेटि रूपम्। सैषा (त्रिंशत्पदानि२) शरीरवर्तीनि दशेन्द्रियाणि, दशप्राणाः, पञ्च कोशाः, आत्मसहितमहङ्कारचतुष्टयम् इत्येतानि त्रिंशदपि स्थानानि (अक्रमीत्) अभिव्याप्नोति ॥ अथ द्वितीयः—उषःपक्षे। उषा३ वर्ण्यते। हे (इन्द्राग्नी) ब्राह्मणक्षत्रियौ ! ब्रह्मक्षत्रे वा इन्द्राग्नी। कौ० ११।८। (अपात्) पादरहितापि (इयम्) एषा उषाः (पद्वतीभ्यः) पादसहिताभ्यः सुप्ताभ्यः प्रजाभ्यः (पूर्वा) जागरिता सती (आ अगात्) आगतास्ति। एषा (शिरः हित्वा) शिरस्त्यक्त्वा, शिरो विनापि (जिह्वया) जिह्वासदृश्या प्रभया (रारपत्) जागरणस्य सन्देशं भूयो भूयो वदन्तीव (चरत्) विचरति। (त्रिंशत् पदानि) अहोरात्रस्य त्रिंशन्मुहूर्तान् (अक्रमीत्) व्यतिक्रम्य समायातास्ति। एकैकमहोरात्रं व्यतियाप्य (पुनरुषस) आविर्भावो भवति, तस्मादिदमुच्यते ॥ अथ तृतीयः—विद्युत्पक्षे। विद्युद् वर्ण्यते। हे (इन्द्राग्नी) राजप्रजाजनौ४! पश्यतम्, (अपात्) पादरहितापि (इयम्) एषा विद्युत् (पद्वतीभ्यः) पादसहिताभ्यः मनुष्यमृगादिप्रजाभ्यः (पूर्वा) तीव्रगामिनी सती (आ अगात्) अस्मदुपयोगाय अस्मान् प्राप्तास्ति। एषा (शिरः हित्वा) शिरो विनापि (जिह्वया) सन्देशवाहकविद्युत्तारयन्त्रकलया (रारपत्) भूयो भूयः सन्देशप्रेषकस्य सन्देशं वदन्ती (चरत्) चलति। सैषा (त्रिंशत् पदानि) मासस्य त्रिंशदपि दिनान्यभिव्याप्य (अक्रमीत्) प्रकाशप्रदानसन्देशवहनयन्त्रचालनादिव्यापारेषु पदं निधत्ते ॥९॥५ ‘अपात् सती पद्वतीभ्यः पूर्वागात्, शिरोरहिता सती जिह्वया रारपत्’ इति विना हेतुं कार्योत्पत्तिवर्णनाद् विभावनालङ्कारः। नामग्राहं विना सङ्केतैः सूचनात् प्रहेलिकालङ्कारोऽपि ॥९॥६

भावार्थः - श्रद्धाया धारणेन धर्मे प्रवृत्तिर्वैयक्तिकी सामाजिकी चोन्नतिर्भवति। उषा जागरणसन्देशं प्रयच्छति। विद्युतः प्रयोगेण रात्रावपि दिवसवत् प्रकाशः प्राप्यते, दूरभाष-आकाशवाणी-क्षकिरण-भारोत्तोलक-अस्त्रप्रक्षेपकादिविविध- यन्त्राणि भूजलान्तरिक्षयानानि च संचाल्यन्ते। एवं श्रद्धा, उषाः, विद्युच्च सर्वेभ्यो जनेभ्योऽतिलाभकर्यः सन्तीति तासां यथोचितमुपयोगः सर्वैर्विधेयः ॥९॥

इस भाष्य को एडिट करें
Top