Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 282
ऋषिः - मेध्यः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
6

इ꣢न्द्र꣣ ने꣡दी꣢य꣣ ए꣡दि꣢हि मि꣣त꣡मे꣢धाभिरू꣣ति꣡भिः꣢ । आ꣡ शं꣢तम꣣ शं꣡त꣢माभिर꣣भि꣡ष्टि꣢भि꣣रा꣡ स्वा꣢꣯पे꣢꣯ स्वा꣣पि꣡भिः꣢ ॥२८२॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । ने꣡दी꣢꣯यः । आ । इत् । इ꣣हि । मित꣡मे꣢धाभिः । मि꣣त꣢ । मे꣣धाभिः । ऊति꣡भिः꣢ । आ । श꣣न्तम । श꣡न्त꣢꣯माभिः । अ꣣भि꣡ष्टि꣢भिः । आ । स्वा꣢पे । सु । आपे । स्वापि꣡भिः꣢ । सु꣣ । आपि꣡भिः꣢ । ॥२८२॥


स्वर रहित मन्त्र

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥२८२॥


स्वर रहित पद पाठ

इन्द्र । नेदीयः । आ । इत् । इहि । मितमेधाभिः । मित । मेधाभिः । ऊतिभिः । आ । शन्तम । शन्तमाभिः । अभिष्टिभिः । आ । स्वापे । सु । आपे । स्वापिभिः । सु । आपिभिः । ॥२८२॥

सामवेद - मन्त्र संख्या : 282
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमेश्वर राजन् विद्वन् वा ! त्वम् (मितमेधाभिः२) परिपूर्णप्रज्ञाभिः (ऊतिभिः) रक्षाभिः सह (नेदीयः इत्) अस्माकं निकटतरम् एव। अन्तिक शब्दादीयसुनि ‘अन्तिकबाढयोर्नेदसाधौ’ अ० ५।३।६३ इति अन्तिकस्य नेदादेशः। (आ इहि) आगच्छ। हे (शन्तम) अतिशयेन सुखयितः ! त्वम् (शन्तमाभिः) अतिशयेन सुखयित्रीभिः (अभिष्टिभिः३) प्राप्तिभिः सह। इष्टिः प्राप्तिः, इष गतौ। अभि पूर्वात् ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’। अ० ६।१।९४ वा० इति पररूपम्। (आ) आ इहि आगच्छ। हे (स्वापे) सुबन्धुभूत ! त्वम् (स्वापिभिः) सुबन्धुत्वैः सह (आ) आ इहि आगच्छ। उपसर्गावृत्तेः क्रियापदावृत्तिः स्वत एव भवतीति वैदिकभाषायाः शैली ॥१०॥ अत्र अर्थश्लेषालङ्कारः। दकारतकारमकारणाम् ‘भि’ इत्यस्य चावृत्तौ, ‘रभि-भिरा’ इत्यत्र च वृत्त्यनुप्रासः। ‘शन्तम, शन्तमा’, ‘स्वापे, स्वापि’ इत्यत्र च छेकानुप्रासः ॥१०॥

भावार्थः - यथा परमेश्वरस्य रक्षा मेधापूर्णा दानानि कल्याणकराणि बन्धुत्वानि च शुभानि भवन्ति, तथैव नृपतेर्विदुषोऽध्यापकस्य चापि भवेयुः ॥१०॥ अत्रेन्द्रनाम्ना परमेश्वरनृपत्याचार्यादीनां गुणकर्मस्वभावमुपवर्ण्य ततोऽभयादियाचनात्, सूर्यनाम्नापि तत्सवनात्, श्रद्धादेरपि महत्त्ववर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति तृतीयप्रपाठके द्वितीयार्धे चतुर्थी दशतिः ॥ इति तृतीयाध्याये पञ्चमः खण्डः ॥

इस भाष्य को एडिट करें
Top