Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 286
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
8

यः꣡ स꣢त्रा꣣हा꣡ विच꣢꣯र्षणि꣣रि꣢न्द्रं꣣ त꣡ꣳ हूम꣢हे व꣣य꣢म् । स꣡ह꣢स्रमन्यो तुविनृम्ण सत्पते꣣ भ꣡वा꣢ स꣣म꣡त्सु꣢ नो वृ꣣धे꣢ ॥२८६॥

स्वर सहित पद पाठ

यः꣢ । स꣣त्राहा꣢ । स꣣त्रा । हा꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । इन्द्र꣣म् । तम् । हू꣣महे । वय꣢म् । स꣡ह꣢꣯स्रमन्यो । स꣡ह꣢꣯स्र । म꣣न्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भ꣡व꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । नः꣣ । वृधे꣢ ॥२८६॥


स्वर रहित मन्त्र

यः सत्राहा विचर्षणिरिन्द्रं तꣳ हूमहे वयम् । सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥२८६॥


स्वर रहित पद पाठ

यः । सत्राहा । सत्रा । हा । विचर्षणिः । वि । चर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् । सहस्रमन्यो । सहस्र । मन्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भव । समत्सु । स । मत्सु । नः । वृधे ॥२८६॥

सामवेद - मन्त्र संख्या : 286
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

पदार्थः -
(यः) परमात्मा राजा वा (सत्राहा२) सत्रा सत्येन असत्यं हन्ति इति तथाविधः यद्वा, सत्रा सत्येन हन्ति गच्छति व्यवहरतीति सः। सत्रा इति सत्यनाम। निघं० ३।१०। हन हिंसागत्योः। (विचर्षणिः) विशेषेण द्रष्टा च अस्ति। विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (तम् इन्द्रम्) विघ्नदुःखादिविदारकं सुखैश्वर्यप्रदं च परमात्मानं राजानं वा (वयम्) प्रजाजनाः (हूमहे) आह्वयामः। ह्वेञ् धातोः ‘बहुलं छन्दसि, अ० २।४।७३’ इति शपो लुकि ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे, पूर्वरूपे ‘हलः’ अ० ६।४।२ इति दीर्घत्वे रूपमिदम्। अत प्रत्यक्षकृतमाह। हे (सहस्रमन्यो३) पापानां पापिनां चोत्सादनार्थम् अनन्तोत्साहयुक्त ! (तुविनृम्ण) बहुबल ! बहुधन ! तुवि इति बहुनाम। निघं० ३।१। नृम्णम् इति बलनाम धननाम च। निघं० २।९, २।१०। (सत्पते) सतां पालक ! त्वम् (समत्सु४) जीवनसंघर्षेषु देवासुरसंग्रामेषु वा। समत्सु इति सङ्ग्रामनामसु पठितम्। निघं० २।१७। ‘समदः समदोः वाऽत्तेः, सम्मदो वा मदतेः’ इति निरुक्तम्। ९।१७। याः प्राप्य क्षत्रियाः संमाद्यन्ति हृष्यन्ति ताः समदः युद्धानि। (नः) अस्माकम् (वृधे) वर्धनाय (भव) वर्त्तस्व •॥४॥ अत्रार्थश्लेषालङ्कारः •॥४॥

भावार्थः - यथा ब्रह्माण्डे परमेश्वरोऽसत्यस्य, हन्ता, सर्वद्रष्टा, पापानामसहनो, बहुबलो, बहुधनः, सतां पालको, देवासुरसंग्रामेषु देवानां विजयप्रदः वर्धयिता च वर्तते तथैव राष्ट्रे राजा भवेत् •॥४॥५

इस भाष्य को एडिट करें
Top