Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 290
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ ग꣢मत् ॥२९०॥

स्वर सहित पद पाठ

उ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣣ । श꣡वि꣢꣯ष्ठः । आ । ग꣣मत् ॥२९०॥


स्वर रहित मन्त्र

उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९०॥


स्वर रहित पद पाठ

उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठः । आ । गमत् ॥२९०॥

सामवेद - मन्त्र संख्या : 290
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

पदार्थः -
(इन्द्रः) सुखप्रदाता दुःखहर्ता जगदीश्वरः नृपतिश्च (अर्वाक्) अस्मदभिमुखं भवेत्, (च) किं च (नः) अस्माकम् (इदम्) एतत् (उभयम्२) मानसं वाचिकं च यद्वा लिखितं मौखिकं चोभयात्मकम् (वचः) निवेदनम् (शृणवत्) शृणुयात्। श्रु श्रवणे धातोर्लेटि रूपम्। अपि च (मघवान्) सकलैश्वर्यवान् (शविष्ठः३) सर्वाधिकबलशाली स परमेश्वरो नृपतिश्च (सोमपीतये) सोमस्य मानसशान्तेर्बाह्यशान्तेश्च पीतिः रक्षा तदर्थम् (सत्राच्या४) सत्यानुगामिन्या। सत्रा सत्यम् अञ्चति प्राप्नोतीति सत्राची तया। सत्रा इति सत्यनाम। निघं० ३।१०, अञ्चू गतौ। (धियाः) विचारशृङ्खलया सह (आ गतम्) अस्मदन्तिकं समागच्छेत्। आङ् पूर्वाद् गमेर्लिङर्थे लुङ् ‘बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडभावः ॥८॥ अत्र श्लेषालङ्कारः ॥८॥

भावार्थः - यथा परमात्मा मनुष्याणामन्तःकरणे भ्रातृभावस्य शान्तेश्च विचारान् प्रेरयति तथैव राजानः राष्ट्रेषु संसारे च पारस्परिकं विद्वेषं समाप्य शान्तिं वितनुयुः ॥८॥

इस भाष्य को एडिट करें
Top