Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 3
ऋषिः - मेधातिथिः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
11
अ꣣ग्निं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हो꣡ता꣢रं वि꣣श्व꣡वे꣢दसम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥३॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । दू꣣त꣢म् । वृ꣣णीमहे । हो꣡ता꣢꣯रम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥३॥
स्वर रहित मन्त्र
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥३॥
स्वर रहित पद पाठ
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । विश्व । वेदसम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥३॥
सामवेद - मन्त्र संख्या : 3
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
विषयः - स परमात्माऽस्माभिर्दूतत्वेन वरणीय इत्याह।
पदार्थः -
वयम् (होतारम्) दिव्यगुणानाम् आह्वातारम्। होतारं ह्वातारम् इति निरुक्तम् ७।१५। अत्र ह्वेञ् धातोस्तृन्, बहुलं छन्दसि अ० ६।१।३४ इति सम्प्रसारणम्। (विश्ववेदसम्) विश्वं वेत्ति जानातीति विश्ववेदाः सर्वज्ञः, यद्वा विश्वस्मिन् विद्यते यः स विश्ववेदाः सर्वव्यापकः, यद्वा विश्वं वेदः आध्यात्मिकं भौतिकं च धनं यस्मात् स विश्ववेदाः, तम्। विद जाने। विद सत्तायाम्। वेद इति धननाम। निघं० २।१०। किञ्च, (अस्य) एतस्य अनुष्ठीयमानस्य (यज्ञस्य) अध्यात्मयागस्य (सुक्रतुम्) सुकर्माणं, सुसञ्चालकम् ऋत्विग्रूपम्। क्रतुरिति कर्मनाम। निघं० २।१। अत्र सोरुत्तरः क्रतुशब्दः क्रत्वादयश्च अ० ६।२।११८ इत्याद्युदात्तः। (अग्निम्) परमात्मानम् (दूतं वृणीमहे) दिव्यगुणावतारे दूतत्वेन स्वीकुर्मः ॥३॥
भावार्थः - यथा हि दूतत्वेन वृतः कश्चिज्जनोऽस्माकं सन्देशं प्रियजनसमीपं नीत्वा, प्रियजनस्य च सन्देशमस्मान् प्रति प्रापय्य तेनास्माकं समागमं कारयति, तथैव सत्याहिंसास्तेयब्रह्मचर्यापरिग्रहन्यायविद्याश्रद्धासुमतीत्यादि-दिव्यगुणगणानामस्माकं च मध्ये दौत्यं विधाय परमात्माऽस्मान् प्रति दिव्यगुणानाह्वयतीत्यसौ सर्वैरेवोपासकैर्दूतत्वेन वरणीयः ॥३॥
टिप्पणीः -
१. ऋ० १।१२।१। साम० ७९०। अथर्व० २०।१०१।१