Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 300
ऋषिः - श्रुष्टिगुः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
क꣣दा꣢ च꣣न꣢ स्त꣣री꣡र꣢सि꣣ ने꣡न्द्र꣢ सश्चसि दा꣣शु꣡षे꣢ । उ꣢पो꣣पे꣡न्नु म꣢꣯घ꣣वन्भू꣢य꣣ इ꣢꣯न्नु ते꣣ दा꣡नं꣢ दे꣣व꣡स्य꣢ पृच्यते ॥३००॥
स्वर सहित पद पाठक꣣दा꣢ । च꣣ । न꣢ । स्त꣣रीः꣢ । अ꣣सि । न꣢ । इ꣣न्द्र । सश्चसि । दाशु꣡षे꣢ । उ꣡पो꣢꣯प । उ꣡प꣢꣯ । उ꣣प । इ꣢त् । नु । म꣣घवन् । भू꣡यः꣢꣯ । इत् । नु । ते꣣ । दा꣡न꣢꣯म् । दे꣣व꣡स्य꣢ । पृ꣣च्यते ॥३००॥
स्वर रहित मन्त्र
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥३००॥
स्वर रहित पद पाठ
कदा । च । न । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे । उपोप । उप । उप । इत् । नु । मघवन् । भूयः । इत् । नु । ते । दानम् । देवस्य । पृच्यते ॥३००॥
सामवेद - मन्त्र संख्या : 300
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
विषयः - परमेश्वरस्यार्चनं कदापि निष्फलं न भवतीत्युच्यते।
पदार्थः -
हे (इन्द्र) सुखप्रदातः परमेश्वर ! त्वम्, (कदाचन) कदाचित्, (स्तरीः२) निवृत्तप्रसवा गौरिव निष्फलः (न असि) न भवसि, प्रत्युत (दाशुषे) आत्मसमर्पकाय अन्तर्यज्ञस्य यजमानाय, तस्मै फलम् दातुमित्यर्थः। दाशृ दाने धातोः क्वसुप्रत्यये चतुर्थ्येकवचने रूपम्। ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ अ० २।३।१४ इति चतुर्थी। (सश्चसि) प्राप्नोषि। सश्चतिः गतिकर्मा। निघं० २।१४। हे (मघवन्) धनपते ! (देवस्य) दानादिगुणयुक्तस्य (ते) तव (दानम्) दीयमानमैश्वर्यम् (इत् नु) अवश्यमेव (भूयः इत्) पुनः पुनरपि (नु) क्षिप्रमेव (उप-उप पृच्यते) यजमानेन संसृज्यते, संसृज्यते। ‘प्रसमुपोदः पादपूरणे’ अ० ८।१।६ इति उपोपसर्गस्य पादपूरणे द्वित्वमुक्तम्। वस्तुतस्तु उपपृच्यते उपपृच्यते इति द्विरुक्त्यात्र संसर्गस्य क्षिप्रत्वमाधिक्यं च द्योत्यते ॥८॥३
भावार्थः - यः परमेश्वरायात्मानं समर्पयति तत्कृते स सेविता दोग्ध्री गौरिव सद्यः फलं प्रयच्छति ॥८॥
टिप्पणीः -
१. ऋ० ८।५१।७, ऋषिः श्रुष्टिगुः काण्वः। य० ३।३४, ऋषिः मघुच्छन्दाः। २. स्तरीति निवृत्तप्रसवा गौः। तन्न भवसि। धुक्षसे एव सदा कामानिति—इति भ०। स्तरीः हिंसको नासि। यद्वा स्तरीर्निवृत्तप्रसवा गौस्तथाविधो न भवसि। सा यथा वत्साभावात् गृहं प्रति नागच्छति न तथा करोषीत्यर्थः—इति सा०। न स्तृणासि न क्रुध्यसि—इति य० ३।३४ भाष्ये उवटः, ‘स्तृञ् हिंसायाम्’, स्तृणातीति स्तरीः, हिंसको नासि—इति च महीधरः। ३. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरस्य कर्मफलदातृत्वविषये व्याख्यातः।